पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/१०१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९४ सुधोपेते माधवनिदाने- तजः सास्राक्षः नुतनासिकः । रूक्षजिह्वः पूतिगर्भो हतवागतिदुर्बलः ॥ इत्यादि ॥ २६ ॥ ग्रहावेश- देवग्रहाः पौर्णमास्यामसुराः सन्ध्ययोरपि । काला:- गन्धर्वाः प्रायशोऽष्टम्यां यक्षाश्च प्रतिपधथ ॥२७॥ पित्र्याः कृष्णक्षये हिंस्युः पञ्चम्यामपि चोरगाः। रक्षांसि रात्रौ पैशाचाश्चतुर्दश्यां विशन्ति हि ॥ २८ ॥ देवादीनां ग्रहणकालमाह-देवग्रहा इत्यादि। देवग्रहाः पौर्णमास्यां- पूर्णिमातिथौ, अनुराः सन्ध्ययोः सापंप्रातः, गन्धर्वा अष्टम्यां तिथी, प्रायो. ग्रहणादन्यत्रापीति । यक्षाः प्रतिपदि-प्रतिपदायां तिथी, पित्र्या:-पितृग्रहाः, कृष्णपक्षे-अमावस्यायाम् , उरगा:-सर्पग्रहाः पञ्चम्याम् , रक्षांसि रात्री, पिशाचाश्चतुर्दश्यां विशन्ति ॥ २७-२८ ॥ ग्रहावेशप्रकार:- दर्पणादीन् यथा छाया शीतोष्णं प्राणिनो यथा । स्वमणि भास्कराश्चि यथा देहं च देहएक् ॥ १९ ॥ विशन्ति च न दृश्यन्ते ग्रहास्तवच्छरीरिणः । प्रविश्याशु शरीरं हि पीडां कुर्वन्ति दुःसहाम् ॥ ३०॥ ग्रहाणां प्रभावः- (तपांसि तीवाणि तथैव दानं व्रतानि धर्मो नियमश्च सत्यम्। गुणास्तथाऽष्टावपि तेषु नित्या व्यस्ताः समस्ताश्च यथाप्रभावम् ३१ ग्रहाणां पुम्भिः स्वयमसंबन्धः-- न ते मनुष्यः सह संविशन्ति न वा मनुष्यान् क चिदाविशन्ति । ये त्वाविशन्तीति वदन्ति मोहात् ते भूतविद्याविषयादपोशाः ॥३२॥ ग्रहभृत्यानां पुंस्वावेशः-- तेषां ग्रहाणां परिचारका ये कोटीसहस्रायुतपनसंख्याः। असृग्वसामांसभुजः सुभीमा निशाविहाराश्च तथाऽऽविशन्सि)॥३३॥ इति श्रीमाधवकरविरचिते-माधवनिदाने विशमुन्माद- निदानं समाधम् ॥२०॥ विशन्तो ग्रहाः कुतो न लक्ष्यन्त इत्यत आह-दर्पणादीनित्यादि। छा. या-प्रतिकृतिः, दर्पणादीन् , शीतोष्णं प्राणिनः, भास्कराचि-सूर्यकि-