पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/१४०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रमेहानिदानम् ३३ । ये चापि के चित्-कुष्ठादयो विकाराः,कुलजा वंशपरम्परोद्भवाः,भवन्ति तानप्यसाध्यान् वदन्ति ॥ २३ ॥ मधुमेहत्व-सर्व एवं प्रमेहास्तु कालेनाप्रतिकारिणः । हेतुः-मधुमेहत्वमायान्ति तदाऽसाध्या भवन्ति हि ॥२४॥ उपेक्षया कफजादिप्रमेहाणां मधुमेहत्वं प्रदर्शयन्नाह सर्व इत्यादिना । सर्व एव प्रमेहाः, अप्रतिकारिणः-चिकित्सितमकुर्वतः, कालेन समयमासाद्य, मधुमेहत्वमायान्ति तदाऽसाध्या भवन्ति ॥ २४॥ मधुमेहरूप-मधुमेहे मधुसमं जायते स किल द्विधा। क्रुद्धे धातुक्षयाद्वायौ दोषावृतपथेऽथवा ॥ २६ ॥ आवृतो दोषलिङ्गानि सोऽनिमित्त प्रदर्शयन् । क्षणात्क्षीणः क्षणात्पूर्णो भजते कृच्छ्रसाध्यताम् ॥ मधुरं यच्च मेहेषु प्रायो मध्विव मेहति । सर्वेऽपि मधुमेहारूया माधुर्याच्च तनोरतः ॥ २६ ॥ मधुमेहे मधुसम-क्षौद्रतुल्य मूत्रं जायते । स च मधुमेहो हि द्विधा सम्भ- वति, एकस्तु धातुक्षयात्क्रुद्ध वायौ जायते, दितीयो हि दोषावृतपथे। आवृतो दोषलिङ्गानि, येन पित्तादिनाऽऽवृतस्तस्य लिङ्गानि दर्शयति सः, अनिमित्तम् =अकस्मात्, क्षणात् क्षीणः क्षणात् पूर्णो वा भवन् कृच्छ्रसाध्यता भजत इति । मधुमेहशम्दप्रवृत्तौ निमित्तं दर्शयति-मधुरं यच्चेति । यद्-यस्मात् का. रणात्, मैहेषु मध्विव प्रायो मधुर मेहति, अतः, तनो शरीरम्य, माधुर्याच्च मधुमेहाख्या सर्वे लभन्त इति ॥ २५-२६ ॥ प्रमेहपिडकाया नामानि स्थान संख्या च- शराविका कच्छपिका जालिनी विनताऽलजी। मसूरिका सर्षपिका पुत्रिणी सविदारिका ॥२७॥ विद्वधिश्चेति पिडकाः प्रमेहोपेक्षया दश । सन्धिमर्मसु जायन्ते मांसलेषु च धामसु ॥ २८ ॥ उपेक्षया शराविकाऽऽदयो दश पिडका जायन्ते, ता विवृणोति-शराविकेत्या दि। प्रमेहोपेक्षया दश पिडका जायन्ते। के चिच्च नव पिडकाः सन्तीति भाषन्ते कुलथिकाग्रहणात् तत्र मसूरिकाया एव मेदग्रहणान विरोषः। चरके तु सप्त पिडका यथपि वर्णितास्तथाऽप्युत्तरत्र तथाऽन्याः पिडकाः सन्तीति वर्णनाद- न्यासामपि सम्भवः सूचित एवेति नात्र प्रतिक्करपतेति शेयम् ॥ २७-२८ ।।