पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/१५५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४८ सुधोपेते माधवनिदाने- असाध्यत्वमाह-वल्मीकमिवेत्यादि । वल्मीक-कृमिशैलं, तदिव, कण्टक- रुपचीयतेकण्टकवन्मांसाराप्यते, अब्दात्मक संवत्सरातीतम् ॥ ४ ॥ इति सुधायां श्लीपदनिदानम् ॥ तत्र कफ- त्रीण्यप्येतानि जानीयाच्छ्रलीपदानि कफोच्छ्रयात् । प्राधान्य-गुरुत्वं च महत्त्वं च यस्मानास्ति कफ विना ॥६॥ उत्पत्तिदेशाः-पुराणोदकभूयिष्ठाः सर्व षु च शीतलाः । ये देशास्तेषु जायन्ते श्लीपदानि विशेषतः ॥ ६॥ पुनरप्यसाध्यरूपं- यच्छ्लेष्मलाहारविहारजातं पुसः प्रकृत्याऽपि कफात्मकस्य । सामावमत्युनतसर्वलिङ्ग सकण्डुरं लेष्मयुतं विवय॑म् ॥७॥ इति श्रीमाधवकरविरचिते माधवनिदान एकोनचत्वारिंश कलीपदनिदानं समातम् ॥ ३९ ॥ अथ चत्वारिंशं विधि-निदानम् ॥ २ ॥ संप्राप्ति:-त्वपक्तमांसमेदांसि संदूष्यास्थिसमाश्रिताः। दोषाः शोथं शोरै जनयन्त्युच्छ्रिता भृशम स्वरूप-महामूलं रुजावन्तं वृत्तं वाऽप्यथवाऽऽयतम् । स विद्रधिरिति ख्यातो विज्ञेयः षड्विधश्च सः ॥२॥ सम्प्राप्तिमाह-स्वग्रक्वेत्यादि । अस्थिसमाश्रिताः, भृशमुच्छ्रिता प्रत्य- थे प्रकुपिताः, घोरं-दारुणं, महामूलं - सुजद, वृत्तं वर्तुलम् , आयतं= विशालं, स विद्रधिरिति ख्यातः-इति शब्देन निरुपाधिसंकेतमात्रेयं संशति बोध- यति । चरके तु- सवै शीघ्रविदाहित्वा विद्रधीत्यभिधीयत" इति१-२ संख्या-पृथग् दोषः समस्तैश्च क्षतेनाप्यसृजा तथा। षण्णामपि हि तेषां तु लक्षणं सम्प्रवक्ष्यते ॥३॥ वातजविद्रधिः-कृष्णोऽरणो वा विषमो भृशमत्यर्धवेदनः । चित्रोत्थानप्रपाका विद्रधिर्वातसम्भवः ॥४॥ पित्तजः-पक्वोदुम्बरसंकाशः पयायो वा ज्वरदाहवान् । क्षिप्रोत्थानप्रपाका विद्रधिः पित्तसम्भवः ॥५॥