पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/१७४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कुष्ठनिदानम् ४९। स्यैकादश तुदकुष्ठानि। विपादिकाविचर्चिकयोः स्थानभेदाद् भेद:-"पाण्यो- विचचिका ज्ञेया पादे ज्ञेया विपादिके'ति, अतो न संख्याऽतिरेकः १७-२३ कुष्ठे वातपित्तकमद्वन्दत्रिदोषचिह्नानि- खरं श्यावारुणं रूक्षं वातकुष्ठं सवेदनम् । पित्तात्प्रकथितं दाहरागत्रावान्वितं मतम् । कफात्क्लेदि धनं स्निग्धं सकण्डूशैत्यगौरवम् । द्विलिङ्ग द्वन्द्वज कुष्ठं, त्रिलिई सानिपातिकम् ॥ २४ ॥ त्वस्थकुष्ठं त्वक्थे गैवर्ण्यमहेषु कुष्ठे रौक्ष्यं च जायते ॥२५॥ रक्तस्थं च-त्वस्वापो रोमहर्षश्च स्वेदस्यातिप्रवर्त्तनम् । कण्डूर्विपूयकश्चैव कुष्ठे शोणितसंश्रिते ॥ २६ ॥ मांसस्थं-बाहुल्यं वक्त्रशोषश्व कार्कश्य पिडकोद्गमः । तोदः स्फोटः स्थिरत्वं च कुष्ठे मांससमाश्रिते ॥२७॥ सप्तधातुगतस्य कुष्ठस्य लक्षणं क्रमेणाह-त्वस्थ इत्यादि ॥ २४-२७ ।। भेदःस्थं कोण्यं गतिक्षयोऽङ्गानां सम्भेदः क्षतसर्पणम् । मेदस्थानगते लिङ्ग प्रागुक्तानि तथैव च ॥ २८ ॥ अस्थिमज्जस्थ-नासाभङ्गोऽक्षिरागश्च क्षतेषु क्रिमिसम्भवः । स्वरोपघातश्च भवेदस्थिमजसमाश्रिते ॥२९॥ जन्मकुष्ठित-दम्पत्योः कुष्ठबाहुल्याद् दुष्टशोणितशुक्रयोः । यदपत्यं तयोर्जातं ज्ञेयं तदपि कुष्ठितम् ॥ ३० ॥ कुष्ठस्य सा-साध्यं त्वग्रक्तमांसस्थं वातश्लेष्माधिकं च यत् । थयादिभेदाः-मेदसि द्वन्द्वज याप्य, बज्यं मजास्तिसंश्रितम् ॥ ३१ ॥ क्रिमितृड्दाहमन्दाग्निसंयुक्त यत्त्रिदोषजम् । प्रभिन्न प्रसुताङ्गं च रक्तनेत्रं हतस्वरम् । पञ्चकर्मगुणातीतं कुष्ठ हन्तीह मानवम् ॥ ३३ ॥ असाध्यमाह-क्रिमितृड्दाहेत्यादि । पञ्चकर्मगुणातीतं-पूर्वरूपक्रि- यया सह रसादिधातूनां चतुर्ण क्रियाकलापाः पञ्चकर्माणि तेषां गुणाःत्री. र्याणि, तान्यतीतो यः स तथाभूतः, अस्थिमज्जगत इत्यर्थः ॥ २८-३२ ॥ दोषविवेक:-बातेन कुष्ठं कापालं पित्तेनौदुम्बरं कफात् ॥ ३३ ॥ मण्डलाय, विचर्ची च ऋष्याख्यं वातपित्तजम् । चमककुष्ठं किटिभ सिध्मालसविपादिकाः ॥ ३४ ॥