पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/१७७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७० विद्वांसः। सुधोपेते माधवनिदाने- पित्तं विदग्धं प्रकुपितम् , अभूदिति शेषः । तदम्लपित्तं सन्तः - प्रवदन्ति - पाचक्षते । अत्र पित्तं प्रधानतयाऽवतिष्ठते वातश्लेष्माणौ चात्रा- नुगौ भवतः ।। १ ॥ सामान्य- अविपाकक्लमोत्क्लेशतिक्ताम्लोद्गारगौरवैः । रूपम्-हत्कण्ठदाहारुचिभिश्चाम्लपित्तं वदेशिषक ॥ २ ॥ अधोगाम्ल- तृड्दाहमूभ्रिममोहकारि प्रयात्यधो वा विविधप्रकारम् । पित्तलक्षणं-हल्लासकोठानलसादहर्षस्वेदाङ्गपीतत्वकरं कदा चित् ॥३॥ ऊर्ध्वगाधोगभेदेनाम्लपित्तं द्विविधं तत्र तावदधोगमाह-तृड्दाहेत्यादि मूर्छा = अचैतन्य, मोहो-विपरीतज्ञानम् , अधो वेति वाशब्द ऊर्ध्वगत्वमभि- व्यनक्ति। विविधप्रकारं हरित्तीतकृष्णादिवर्णम् । कदाचित् न सर्वदा॥२-३॥ फर्ध्वगाम्ल-वान्तं हरित्पीतकनीलकृष्णमारक्तरक्ताभमतीव चाम्लम् । पित्तरूप-मांसोदकामंत्वतिपिच्छिलाच्छंश्लेष्मानुजातं विविधरसेन : भुक्ते विदग्धे त्वथवाऽप्यभुक्तकरोति तिक्ताम्लवर्मिकदाचित्। उद्गारमेवंविधमेव कण्ठहत्कुक्षिदाहं शिरसो रुजं च ॥५॥ करचरणदाहमौष्ण्यं महतीमरुचि ज्वरं च कफपित्तम् । जनयति कण्डूमण्डलपिडकाशतनिचितगात्ररोगचयम् ॥ ॥ ऊर्ध्वगतिमाह-वान्तमित्यादि । आरक्तम् - अल्परक्त, मांसोदकाम= मांसधावनतोयाभ, रसेन= कटुतिक्तादिना, विविध नैकरू', वान्तवमि, करोति । भुक्ते-अन्ने, विदग्धे-असम्यक् परिणते, अथवाऽप्यभुक्ते, वा कदा. चित् तिक्ताम्लवमिं करोति । करोतिशब्दः सर्वत्र सम्बद्धयते एवंविधं तिक्ताम्ल. मेवोद्गार करोति, कण्ठादिदाहं शिरस-मस्तकस्य, रुज-पीडां, च करोति । कण्डवादिनिचितगात्र रोगचयं च करोति । कण्डवादिनिचितगात्रं च रोगचर्य- चेति द्वन्द्वः ॥ ४-६ ॥ साध्यत्वादि-रोगोऽयमम्लपित्ताख्यो यत्नात् संसाध्यते नवः । चिरोत्थितो भवेद्याप्यः, कृच्छ्रसाध्यः स कस्य चित् ॥ ७॥ दोषसम्बन्धः-सानिलं सानिलकर्फ सकर्फ तच लक्षयेत् । दोषलिङ्गन मतिमान् भिषङ्मोहकरं हि तत् ॥८॥ यातिकरूपं-कम्पप्रलापमूर्छाचिमिचिमिगात्रावसादशूलानि । समसो दर्शनविभ्रमविमोहहर्षाण्यनिलकोपार॥९॥ 1 ,