पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/१८०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विसर्पनिदानम् १२। १५३ करोति । दुष्प्रबोधोऽश्नुते निद्रा दुःखेन प्रबोधो-जागरणं यस्य स तथा भूतः सन् निद्रामश्नुते (मरणरूपां निद्रां प्राप्नोतीत्यर्थः) ।।८-१३ ॥ अन्थिविसर्पः-कफेन रुद्धः पवनो भित्त्वा तं बहुधा कफम् । रक्तं वा बृद्धरक्तस्य त्वक्सिरास्नायुमांसगम् ॥१४॥ दूषयित्वा तु दीर्घाणुवृत्तस्थूलखरात्मनाम् । ग्रन्थीनां कुरुते मालां सरक्तां तीव्ररुग्ज्वराम् ॥१५॥ वासकासातिसारास्यशोषहिकावमिभ्रमैः । मोहवैवर्ण्यमूर्छाऽङ्गभङ्गाग्निसदनैर्युताम् ॥ इत्ययं ग्रन्थिवीसर्पः कफमारुतकोपजः ॥१६॥ कर्दमविसर्पः-कफपित्ताज्ज्वरः स्तम्भो निद्रा तन्द्रा शिरोरुजा। अङ्गावसादविक्षेपौ प्रलेपारोचक्रभ्रमाः ॥१७॥ मूर्छाऽमिहानिर्भेदोऽस्थ्नां पिपासेन्द्रियगौरवम् । आमोपवेशनं लेपः स्रोतसां स च सर्पति ॥१८॥ प्रायेणामाश्रयं गृहन्नेकदेशं न चातिरुक । पिडकैरवकीर्णोऽतिपोतलोहितपाण्डुरैः॥१९॥ स्निग्धोऽसितो मेचकाभो मलिनः शोथवान् गुरुः । गम्भीरपाकः प्राज्योष्मा स्पृष्टः क्लिन्नोऽवदीयते ॥ २० ॥ पक्वच्छीर्णमांसश्च स्पष्टस्नायुसिरागणः । शवगन्धी च वीसर्पः कर्दमाख्यमुशन्ति तम् ॥ २१॥ क्षतविसर्पः-बाह्यहेतोः क्षतात् क्रुद्धः सरक्त पित्तमीरयन् ॥ २२ ॥ वीस मारुतः कुर्यात्कुलत्थसहशैश्चितम् । स्फोटः शोथज्वररुजादाहायं श्यावशोणितम् ॥ २३ ॥ उपद्रवाः-ज्वरातिसारौ धमथुस्त्वङ्मांसदरणं क्लमः । अरोचकाविपाकौ च विसर्पाणामुपद्रवाः ॥२४॥ सर्वेषां विसर्पाणामुपद्रवानाह-ज्वरेत्यादि । ज्वरातिसारो-वमथुः छर्दिः, त्वब्यांसदरणं-धर्मासस्फोटन, क्लमः - ग्लानिः, अरोचकाविपाको चेति विसाणामुपद्रवाः॥१४-२४॥ साध्यत्वादि-सिद्धयन्ति वातककपित्तकृता विसाः सर्वात्मक क्षतकृतश्च न सिद्धिमेति ।