पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/१८४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मसूरिकानिदानम् ६४। १७७ मज्जोत्था भृशसम्मोहवेदनारतिसंयुताः। छिन्दन्ति मर्मधामानि प्राणानाशु हरन्ति हि ॥१९॥ भ्रमरेणेव विद्वानि कुर्वन्स्यस्थीनि सर्वतः । पकामाः पिडकाः स्निग्धाः सूक्ष्माश्चात्यर्थवेदनाः ॥२०॥ स्तमित्यारतिसम्मोहदाहोन्मादसमन्विताः। शुक्रजायां मसूर्यो तु लक्षणानि भवन्ति हि ॥ २१ ॥ निर्दिष्ट केवलं चिहं श्वते न तु जीवितम् । दोषमिश्रास्तु सप्तैता इष्टच्या दोषलक्षणैः ॥ २३ ॥ स्वग्गता रकजाश्चैव पित्तजाः श्लेष्मजास्तथा । श्लेष्मपित्तकृताश्चैव सुखसाध्या मसूरिकाः॥ २३ ॥ वातजा वातपित्तोत्थाः श्लेष्मवातकृताश्च याः । कृच्छ्रसाध्यतमास्तस्माद्यनादेता उपाचरेत् ॥२४॥ असाध्याः सनिपातोत्थास्तासां वक्ष्यामि लक्षणम् । प्रवालसदृशाः काश्चित् काश्चिजम्बूफलोपमाः ॥२५॥ लोहजालसमाः काश्चिदतसीफलसन्निभाः। आसां बहुविधा वर्णा जायन्ते दोषभेदतः ॥ २६ ॥ घोरेज्वरपरीताश्च स्थूलाः स्निग्धाः सबेदनाः॥ असाध्यानां वर्णानाह-प्रवालेत्यादि । प्रवालसदृशाः विद्रुमसन्निभाः। लोहजालसमाः कृष्णवर्णाः । अतसीफलसन्निभा: उमाफलवर्णसदृशाः। दोषभेदतःवातादिभेदतः, नानावर्णाः, आसां मसूरिकाणां, जायन्ते॥२५-२६॥ सर्वममूरिकाया भावस्थिकं लिङ्गमाह- कासो हिका प्रमेहश्च ज्वरस्तीतः सुदारुणः । प्रलापश्चारतिर्मच्छो तृष्णा दाहोऽतिपूर्णता ॥२७॥ मुखेन प्रस्रवेदक्तं तथा प्राणेन चक्षुषा । कण्ठे घुर्घरकं कृत्वा वसित्यत्यर्थवेदनम् ॥२८॥ मसूरिकाऽभिभूतस्य यस्यैतानि भिषग्वरः । लक्षणानि च दृश्यन्ते न दद्यादन भेषजम् ॥ २९ ॥ मसूरिकाऽभिभूतो यो भृशं घ्राणेन निःयसेत् । स भृशं त्यजति प्राणांस्तृषाों वायुक्षितः ॥ ३०॥