पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/१८७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८० सुधोपेते माधवनिदाने- विदारिका-विदारीकन्दवद् वृत्ता कक्षावसणसन्धिषु । विदारिका भवेद्रक्ता सर्वजा सर्वलक्षणा ॥२१॥ विदारीलक्षणमाह-विदारीत्यादि । विदारीकन्दवद्, वृत्ता-वर्तुला, कक्षाऽऽदिमागेषु सर्वजा सर्वलक्षणा, रक्ता च विदारिका भवेत् । अत्र-रक्ता सर्वजा सर्वलक्षणेत्यत्र बहुविधं पदच्छेदमामनन्ति विद्वांसः। असर्वजा-अस. वलक्षणेति के चित् । असर्वजा-सवलक्षणेति के चिदाक्षते । सर्वना-असर्वलक्ष. ऐति वा पठन्ति, परं बहुप्रपश्चग्रस्तत्वेन तेषामनतिरमणीयत्वम् । 'विदारीमिति af विचात् सर्वजां सर्वलक्षणामिति पाठान्तरे तु न कश्चिद् व्याख्यानप्रपञ्चः॥२१॥ शर्कराऽबुंदः-प्राप्य मांससिरास्नायूः श्लेष्मा मेदस्तथाऽनिलः । ग्रन्थि करोत्यसौ भिन्नो मधुसर्विसानिभम् ॥ २३ ॥ स्रवत्यासावमनिलस्तत्र वृद्धि गतः पुनः । मांसं संशोष्य ग्रथितां शर्करां जनयेत्ततः॥२३॥ दुर्गन्धि क्लिनमत्यर्थे नानावणं ततः सिराः। सवन्ति रक्तं सहसा तं विधाच्छर्कराऽर्बुदम् ॥ २४ ॥ पाददारी-परिक्रमणशीलस्य वायुरत्यर्थरूक्षयोः । पादयोः कुरुते दारी पाददारी तमादिशेत् ॥ २५ ॥ कदर-शर्करोन्मथिते पादेक्षते वा कण्टकादिभिः प्रन्थिः कोलवदुत्सन्नो जायते कदरं हि तत् ॥ २६ ॥ अलस-फ्लिनाङ्गल्यन्तरौ पादौ कण्डूदाहरूजाऽन्वितौ । दुष्टकर्दमसंस्पर्शादलसं तं विभावयेत् ॥२७॥ इन्द्रलुप्त-रोमकूपानुगं पित्तं वातेन सह मूच्छितम् । प्रच्यावयति रोमाणि ततः श्लेष्मा सशोणितः ॥२८॥ रुणद्धि रोमकूपांस्तु ततोऽन्येषामसम्भवः । तदिन्द्रलुस खालित्यं रुहोति च विभाव्यते ॥ २९॥ इन्द्रलुप्तलक्षणमाह-रोमकूपेत्यादि । वातेन सह मूञ्छित रोमकूपानुर्ग पित्तं रोमाणि प्रच्यावयति-पातयति, सतः सशोणित:- सरक्तः, श्लेष्मा रोमकूपान् रुणद्धि, तदिन्द्रलुप्तं विभाव्यते, खालित्यं रुह्येति च विभाव्यते । खालित्यं त्येति चेन्द्रलुप्तस्य पर्यायाविति । के चित्तु-इन्द्रलुप्तं श्मश्रुणि-खा. लित्यं शिरस्येव, रुया च सकले काय इति भेदं युवन्ति। विनिगमनाविरसाद भेदकथनमप्रामाणिकम् । एतश्च स्त्रीणां न भवति-यदुक्तम्-अत्यन्तसुकुमा-