पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/२०२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नासारोगनिदानम् १८॥ १९५ रक्तो वा रक्तपित्ताभ्यामुत्पातः स गदो मतः ॥१८॥ उन्मन्थकः-कण बलाद्वर्धयतः पाल्यां बायुः प्रकुप्यति । कर्फ संगृह्य कुरुते शोथं स्तब्धमवेदनम् । उन्मन्थकः सकण्डूको विकारः कफवातजः ॥१९॥ परिलेही-संबय॑माने दुर्विद्धे कण्डूपाकरुजाऽन्वितः । शोथो भवति पाकश्च त्रिदाषा दुःखबर्धनः ॥ २०॥ कफासक्रिमयः क्रुद्धाः सर्षपाभा विसर्पिणः । कुर्वन्ति पाल्यां पिडकाः कण्डूदाहरुजाऽन्विताः ॥२१॥ कफासक्रिमिसम्भूतः स विसर्पवितस्ततः । लिहेत् सशष्कुली पाली परिलेहीति स स्मृतः ॥ २२ ॥ इति श्रीमाधवकरविरचिते माधवनिदाने कर्णरोगनिदानं समाप्तम् ॥१७॥ सविसर्पन्नित्यत्र स इत्यनेन पिडकात्मको विकारो ग्राह्यः ॥ २२ ॥ इति सुधायां कर्णरोगनिदानम् । " अथाष्टपञ्चाशत्तमं नासारोग-निदानम् ॥ ५॥ पीनस-आनयते यत्य विशुष्यते च प्रक्लियते धूप्यति चापि नासा। रोगः-न वेत्ति यो गन्धरसांश्च जन्तुर्जुष्टं व्यवस्येत्तमपीनसेन । तं चानिलश्लेष्मभवं विकारं ब्रूयात् प्रतिश्यायसमानलिङ्गम् ॥१॥ अपीनसमाह-आनयत इत्यादि । यस्य-रोगिणः, नासा - नासिका, (घोणा नासा च नासिकेत्यमरः) आनद्यते-आबद्धघते, प्रक्लियते-आद्रों भवति, धूप्यति = सन्तापमनुभवति, गन्धरसान्-गन्धान सुरम्यसुरभीन् , रसान् मधुरादीन् , न वेत्ति न जानाति, सं- रोगिणम् , अपीनसेन जुष्ट= युक्त, व्यवस्येत् जानीयात् , प्रतिश्यायसमानलिङ्ग वातश्लेष्मजप्रति- इयायतुल्यं, तं च विकारम् , अनिलश्लेष्मभवं ब्रूयात् ॥ १ ॥ पूतिनस्यरोग:- दोविदग्थैर्गलतालुमूले संमूछितो यस्य समीरणस्तु । निरेति पूतिर्मुखनासिकाभ्यां ने पूतिनस्य प्रवदन्ति रोगम् ॥२॥ पूतिनस्यमाह-दोषैरित्यादि । विदग्धैः - विरुद्धलवणाम्लरसपाकेन पू. तिभावमुपगतैः; दोषः, यस्य-नरम्य, गलतालुमूले समूच्छितः उच्छ्रायं नीतः