पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/२०३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सुधोपेते माधवनिदाने- समीरण:- पवनः, मुखनासिकाभ्यां पूतिः दुर्गन्धः, निरेति-निर्गच्छति, तं रोग, पूतिनस्य - नासिकाभवो नस्यः पूतिर्नस्यो यस्य तं पूतिनस्यम् । प्रवदन्ति-कथयन्ति, विपश्चित इति शेषः ॥२॥ नासापाकःघ्राणाश्रितं पित्तमरूंषि कुर्याद्यस्मिन् विकारे बलवांश्च पाकः । तं नासिकापाकमिति व्यवस्येद्विक्लेदकोथावथवाऽपि यत्र ॥३॥ नासापाकमाह-घ्राणेत्यादि। अरूपिवणान् , व्यवस्येत् - जानी. यात्, विक्लेदकोथौ- विक्लेदः- आर्द्रता, कोथः =पूतिभावः, अन्वयः सुगमः ॥३॥ पूयरक्त-दोपैर्विदग्धेरथवाऽपि जन्तोललाटदेशेऽभिहतस्य तैस्तैः। रोगः-नासा नवेत् पूयमसग्विमिधं तं पूयरक्तं प्रवदन्ति रोगम् ॥४॥ क्षवथुः-घ्राणाश्रिते मर्मणि संप्रदुष्टो यस्यानिलो नासिकया निरति । कफानुयातो बहुशोऽतिशब्दस्त रोगमाहुः क्षवधु विधिज्ञाः ॥६॥ दोषजं क्षवथुमाह-घाणेत्यादि । घ्राणाश्रिते मर्मणि = शृङ्गाटके, सम्प्र- दुष्टः कफानुयातः, अनिल: वायुः, यस्य नासिकया बहुशो निरेति तं विधि. ज्ञाः= विद्वांसः, क्षवधु वदन्ति ॥ ५॥ आगन्तुज-तीक्ष्णोपयोगादभिजिघ्रतो वा भावान् कटूनर्क निरीक्षणाद्वा । क्षक्थुः-सुत्रादिभिर्वा तरुणास्थिमर्मण्युद्धाटितेऽन्यः क्षवथुनिरेति ॥६॥ भागन्तुजमाह-तीक्ष्णोपयोगात्सर्षपादिभक्षणात्, कटून् भावान् : तीक्ष्णकट्फलादिनस्यम् , अभिजिघ्रतः, अनिरीक्षणात सूवरश्मिविलोक- नात् , सूत्रादिभिः सूत्रनिर्मितवत्तिकाभिः,तरुणास्थि-नासावंशास्थि तदेव मर्मतस्मिन् फणाममणीत्यर्थः। उद्घाटिते-चालिते,अन्यः आगन्तुकः क्षवथुः, निरेति-निर्गच्छति ॥ ६ ॥ भ्रंशथुः-प्रभ्रायते नासिकया तु यस्य सान्द्रो विदग्धो लवणः कफस्तु । प्रासंचितो मूर्धनि सूर्यतप्तस्तं भ्रंश) रोगमुदाहरन्ति ॥ ७॥ दीप्तरोगः-नाणे भृशं दाहसमन्विते तु विनिःसरेदू धम हवेह वायुः। नासा प्रदीसेब च यस्य जन्तोव्याधि तु तं दोसमुदाहरन्ति ॥८॥ प्रतीनाहो नासानावश्व- उच्छ्वासमार्ग तु कफः सवातो रुन्ध्यात् प्रतीनाहमुदाहरेत्तम् ॥ घाणादू धनः पीतसितस्तनुर्वा दोषः सवेत् स्वावमुदाहरेत्तम् ॥९॥