पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/२१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२ सुधोपेते माधवनिदाने- लापविद्वेषौ, जृम्भा- जम्भणम् , अङ्गमर्दोगात्रत्रोटनम् , गुरुता-शरीग- णम् , रोमहर्षः रोमानः, अरुचिः भोजनीयद्रव्येषु अग्रहर्षः = अप्रसन्न- चित्तत्वम्, सामान्यत इति पूर्वपद्येन सम्बद्ध्यते । 'विशेषात् तु' इति उत्त- रेण सम्बद्ध्यने । समीरणाद्-वातात् , जायमाने ज्वरे, अत्यर्थ जम्भा, पि. त्तात्-पैत्तिकै च नयनयोर्दाहः, कफात्-इलैष्मिक ज्वर, अन्नारुचि भो- जनानभिलापः,सर्वदोपप्रकोपजे सान्निपातिक ज्वर, सर्वलिङ्गसमवायः- वातादिलिङ्गावाप्तिः ॥ ४-७ ।। वातज्वररूपम्-वेपथुर्विपमो वेगः कण्ठोष्टपरिशोपणम् । निद्रानाशः क्षवस्तम्भो गात्राणां रौक्ष्यमेव च ॥ ८ ॥ शिरोहदानसावक्त्रवैरस्यं गाढविटकता। शूलाध्माने जृम्भणं च भवन्त्यनिलजे ज्वरे ॥ ९ ॥ दोषेषु वातभ्य भयङ्करविकारकत्र्तृत्वेन प्राधान्यात प्रथमं वातज्वरलक्षण- माह-वेपथुरित्यादि। वेपथुः कम्पः, “टुवे-कम्पने" धातुः “ट्वितोऽथुच" इत्यथुच्प्रत्ययेन सिद्धयति । विषमो वेगः- हीनाधिकभावेन रहमः प्रवर्त्तनम्, अङ्गेषु चौ ण्याचनियतत्वं वा, क्षवस्तम्भः छिका प्रवृत्तिः,वक्रवरस्यम्-मु- खस्य विरुद्धरसता, शूलाध्माने शूलमुदरस्य, आध्मानं वायुना सवेदनमुद्र- रपूर्णत्वम् , जम्भणं-जम्भाया मुहुर्मुहुः प्रवृत्तिः, एतानि लक्षणानि वान- ज्वरे भवन्ति ॥८-९॥ पित्तज्वररूपम्-वेगस्तीक्ष्णोऽतिसारश्च निदाऽल्पत्वं तथा वमिः । कण्टौष्टमुखनासानां पाकः स्वेदश्च जायते ॥१०॥ प्रलापो वक्त्रकटुता मूर्छा दाहो मदस्तृपा । पीतविण्मूत्रनेत्रत्वं पैत्तिके भ्रम एव च ॥ ११ ॥ पैत्तिकज्वरमाह वेग इत्यादि। वेगस्तीक्ष्णः जीबवेगः, अतिसार:= पित्तस्य सरत्वेन सद्रवा प्रवृत्तिर्न त्वतिसारस्तस्य ज्वरोपद्रवत्वात् । निद्राऽ- ल्पत्वं निद्रायाः स्वल्पता, वमिःचमथुः, स्वेदः धर्मनिर्गमः, प्रलापः= असंबद्धभाषणं,वक्त्रकटुता=मुखस्य तिक्तता, मूर्छा रूपाद्यविज्ञानम्, मदः धत्तूरकोद्रवादीनां भक्षणादाविव, तृपा जलाभिलाषः,भ्रमः चक्रारूढस्येव भ्रम- निखिलपदार्थावभासः। ननु भ्रमस्य वातविकारत्वेन पित्तविकारे कथनमसङ्गतमि- ति चेन्न, पैत्तिकेऽपि वातानुबन्धदर्शनात्"नरोगोऽप्येकदोषजः" इत्यादि वचनात् ॥ १०-११ ॥