पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/२१०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

-- गत:- नेत्ररोगनिदानम् ५९। १०३ मुद्गनिभं शुक्लं भवेत् तदप्यसादयम् । के चिद् वदन्ति । तित्तिरिपक्षतुल्यं = शवलमपि, यस्य नेत्रं तदप्यसाध्यस्यमित्यर्थः ॥२७॥ अक्षिपाकात्यय:- श्वेतः समाकामति सर्वतो हि दोषेण यस्यासितमण्डलं च । तमक्षिपाकात्ययमक्षिरोगं सर्वात्मकं वर्जयितव्यमाहुः॥२८॥ अजकाजातम्- अजापुरीपप्रतिमो रुजावानू सलोहितो लोहितपिच्छिलासः। विगृह्य कृष्णं प्रचयोऽभ्युपैति तच्चाजकाजातमिति व्यवस्बेत्॥२९॥ पटलगतरोगानाह, तत्र प्रथमपटलगतदोषः- प्रथमे पटले दोषा यस्य दृष्ट्यां व्यवस्थिताः । अव्यक्तानि स रूपाणि कदा चिदथ पश्यति ॥ ३० ॥ (द्वितीयपटल-दृष्टि शं विद्वलति द्वितीय पटलं गते । मक्षिकामशकांश्चापि जालकानि च पश्यति ॥३१॥ मण्डलानि पताकांश्च मरीचीन कुण्डलानि च । परिप्लवांश्च विविधान् वर्षम, तमांसि च ॥ ३२ ॥ दूरस्थानि च रूपाणि मन्यते स समीपतः । समीपस्थानि दूरे च दृष्टगोचरविभ्रमात् ॥ यत्नवानपि चात्यर्थं सूचीपाशं न पश्यति ॥ ३३ द्वितीयपटलगतस्य लिङ्गमाह-दृष्टिरित्यादि । द्वितीयं पटलं गते दोषे दृष्टिः, भृशम् - प्रत्यर्थं, विह्वलति-पुनः पुनरसम्यग् रूपं गृह्णाति ॥ ३१-३३ ॥ तृतीयपटल- ऊर्ध्वं पश्यति नाधस्तात् तृतीयं पटलं गते । महान्त्यपि च रूपाणि च्छादितानोव चाम्बरैः ॥३४॥ कर्णनासाक्षिहीनानि विकृतानीव पश्यति । यथादोष च रज्येत दृष्टिदोषे बलीयसि ॥ ३९ ॥ तृतीयपटलगतस्य लिङ्गमाह-ऊर्ध्वमित्यादि-तृतीयपटलगते दोथे। अ- म्बरैः वस्त्र, छादितानि मावृतानीव, महान्स्यपि रूपाणि पश्यति। कर्णा- दिविहीनान्यपि पश्यति । बलीयसि-प्रबलतरे, दोषे वातादौ, यथादोष -दृष्टिः, रक्तपीतसितादिभिः, रज्येत युज्यतेत्यर्थः ॥ ३४-३५ ॥ अन्येऽपि दृ-अधःस्थिते समीपस्थं दूरस्थं चोपरिस्थिते । ष्टिप्रकारा:-पाच स्थिते तथा दोषे पार्श्वस्यं नैव पश्यति ॥ ३६॥ गत:-