पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/२१२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नेत्ररोगनिदानम् ५९। १०५ रक्तरूपं-पश्येद्रक्तन रक्तानि तमांसि विविधानि च ॥ ४६॥ त्रिदोषरूप-स सितान्यपि कृष्णानि पीतान्यपि च मानवः । सन्निपातेन चित्राणि विप्लुतानीव पश्यति ॥ ४ ॥ बहुधा च द्विधा चापि सर्वाण्येव समन्ततः । होनाधिकाङ्गान्यपि तु ज्योतीष्यपि च भूयसा ॥४८॥ परिम्लायि-पित्तं कुर्यात् परिम्लायि मूच्छितं पित्ततेजसा । पीता दिशस्तु खद्योतान् भास्करं चापि पश्यति । विकीर्यमाणान् खद्योतैर्वृक्षास्तेजोभिरेव वा ॥४९॥ दोषभेदेन वक्ष्यामि षड्विधं रागैलिङ्गनाशमतः परम् । लिङ्गनाशवर्णःरागोऽरुणो मारतजःप्रदिष्टोम्लायी च नीलश्च तथैव पित्तात्। कफात् सितःशोणितजःसरक्तःसमस्तदोषप्रभवोविचित्रः॥१०॥ वातिकरागस्यैव विशिष्टलक्षणम्- अरुणं मण्डलं दृष्ट्यां स्थूलकाचारुणप्रभम् ॥ ११ ॥ परिम्लायिम परिम्लायिनि रोगे स्यान् म्लायि नीलं च मण्डलम् । ण्डलवर्णः-दोषक्षयात् स्वयं तत्र कदा चित् स्यात्तु दर्शनम् ॥ १२ ॥ लिङ्गनाशस्य दोषविशिष्टलक्षणम्- अरुणं मण्डलं वाताच्चञ्चलं परुषं तथा। पित्तान्मण्डलमानीलं कांस्याभं पीतमेव च ॥ १३ ॥ श्लेष्मणा बहुलं पीतं शकुन्देन्दुपाण्डुरम् । चलत्पमपलाशस्थः शुक्लो बिन्दुरिवाम्भसः ॥ ५४॥ मृज्यमाने च नयने मण्डलं तद्विसर्पति । प्रवालपनपत्राम मण्डलं शोणितात्मकम् ॥ १५॥ दृष्टिरागो भवेच्चित्रो लिङ्गानाशे त्रिदोषजे। यथास्वं दोपलिङ्गानि सर्वष्वेव भवन्ति हि ॥ १६ ॥ तत्संख्या- षड् लिङ्गानाशाः षडिमे च रोगा दृष्टयाश्रयाः षट् च षडेव वाच्याः॥१७॥ पित्तविदग्धदृष्टि- पित्तेन दुष्टेन सदा तु दृष्टिः पीता भवेद्यस्य नरस्य किंचित् । पीतानि रूपाणि च तेन पश्येत् स वै मरः पित्तविदग्धदृष्टिः ॥५॥ प्रा तृतीयं पटलं तु दोषे दिवा न पश्यनिशि चेक्षते सः ।