पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/२३५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२८ सुधोपेते माधवनिदाने- बेष्टनमित्यादि । उद्वेष्टन-लगुडविमर्दनवद् व्यथा। एतानि नव मूलादिविषा- णि प्रायेण कालपातीनि-कालान्तरमारकाणि, निर्दिशेत् ॥८-१२ ॥ विषदिग्धशस्त्रतरूपम्- सद्यः क्षतं पच्यते यस्य जन्तोः नवेद्रक्तं पच्यते चाप्यभीक्षणम् । कृष्णीभूतं क्लिनमत्यर्थपूति क्षतान्मांसं शीर्यते चापि यस्य । तृष्णा मूर्छा ज्वरदाहौ च यस्य दिग्धाहतं तं पुरुषं व्यवस्येत्॥१३॥ व्रगतविषरूपम्- लिङ्गान्येतान्येव कुर्यादमित्रोणे विषं यस्य दत्तं प्रमादात् ॥ १४ ॥ विषलिप्तशस्त्रहतस्य लक्षणमाह-सद्य इत्यादि । यस्य जन्तोः- मनु. व्यस्य, क्षतं सधः पच्यते क्षतस्थानाद् रक्तं स्रवेत् । अभीक्षणं-निरन्तरम् , अ. त्यर्थ क्लिन्नं पूति मांसं शीर्यते-पतति, तृष्णाऽऽदीनि लक्षणानि यस्य भवन्ति तं पुमास दिग्धाहर्त व्यवस्ये-जानीयात् । एतान्येव लक्षणानि प्रमादात शत्रुभिर्वा व्रणे प्रद विर्ष यस्य भवति तत्र बोध्यानि ॥ १३-१४ ।। विषपीतरूप-सपीतं गृहधूमा पुरीषं योऽतिसार्यते । फेनमुद्वमते चापि विषपीतं समादिशेत ॥ १५ ॥ अथ जङ्गमविषप्रकरणम्- सर्माण भेदाः-चातपित्तकफात्मानो भोगिमण्डलिराजिलाः । यथाक्रम समाख्याता व्यन्तरा द्वन्द्वरूपिणः ॥ १६ ॥ स्थावर मुक्त्वा जङ्गमेषु महाविषत्वेन सर्पविषे वाच्ये तदाश्रयान् सर्पानाह- वातपित्तकफात्मान इत्यादि । भोगिमण्डलिराजिला यथाक्रम वातपित्तकफा. रमानो वेदितव्याः । व्यतिकरेण जातान् सर्पानाह-द्वयन्तरा इत्यादि । द्वय. न्तरा-द्वयोरन्तरं विशेषो येषु ते तथा, फणिना मण्डलिया जाता गोनसाः, मण्डलिना गोनसेन च फणिन्यां सम्भूताः कृष्णसाः। द्वन्द्वरूपिणः-द्वयोः फणिमण्डलिन्योर्यद्रूपं -प्रकृतिस्तन्मिलितप्रकृतयः । अथवा-द्वयोर्दोषयोति- पित्तयोः श्लेष्मपित्तयोर्वा यद्रुप तद्रूपमेषामित्यर्थः ॥ १६ ॥ सर्पदंशेषु वातादीनां लक्षणानि- दंशो भोगिकृतः कृष्णः सर्ववातविकारकृत् । पोतो मण्डलिजः शोथो मृदुः पित्तविकारवान् ॥ १७ ॥ राजिलोत्थो भवेश:स्पिरशोयश्च पिच्छिलः । पाण्डः स्निग्धोऽतिसान्द्रासक सर्वश्लेष्मविकारकृत् ॥१८॥ . -