पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/२३९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- सुधोपेते माधवनिदाने- कोपयामास, कुपितेन तेनान्तज्वलदविरलकोपानलब्वलितं कुकूल युगलमिक वहलपाटलं लोचन्युगलं वहता भगवान् रविरवलोकितः । ततस्तस्य भ्रुकुटि- भयङ्करललाटतटप्रस्यन्दी स्वेदविन्दूत्करः प्रचण्डतरः प्रत्यासन्नलूनतृणे धेन्वर्थ संभृते निपतितो लूताऽभवदिति । ता लूतारतु षोडश। तासां लूतानां सामान्य- दशलक्षणमाह-ताभिर्दष्ट इत्यादि ॥ ३८-४० ॥ अष्टवित्रिमण्डलादिलूतानां कृच्छ्रसाध्यत्वम्- तामिर्दष्टे शिरोदुःखं कण्डूदेशे च वेदना । भवन्ति च विशेषेण गदाः लौष्मिकबातिकां ॥ दूषीविषलूतानां दशलक्षणम्- दंशमध्येतु यत् कृष्णं यावं वा जालकाचितम् ॥४॥ ऊर्वाकृति भृशं पाक क्लेदशोथज्वरान्वितम् । दूषीविषाभिर्खताभिस्तइष्टमिति निर्दिशेत् ॥४२॥ सर्वलूतानां दशरूपम्- (साणामेव विण्मूत्र-शावकोथसमुद्भवाः । दूषीविषाः प्राणहरा इति संक्षेपतो मताः ॥१६) प्राणहरायां सौवणिकाऽऽदीनामष्टानां लूतानां दंशसामान्यलक्षणम्- शोथः श्वेताः सिता रक्ता:पीता वा पिडका ज्वरः । प्राणान्तिकाश्च जायन्ते चासहिकाशिरोग्रहाः॥४३॥ मूषिकादंशरूपम्- आदेशाच्छोणितं पाण्डु मण्डलानि ज्वरोऽरुचिः । लोमहर्षश्च दाहश्चाप्याखुषीविषादिते ॥ ४४ ॥ आखुविषलक्षणमाह-आदशादित्यादि । भाखवो हि शुक्रविषाः ॥४४॥ मूर्छाऽङ्गशोथवैवण्येक्लेदशब्दाश्रुतिज्वराः । शिरोगुरुत्वं लालाऽस्कूछदिश्चाताध्यमूषकैः ॥४॥ कृकलासदंशरूपं- काष्ण्यं यावत्वमथवा नानावर्णत्वमेव वा। मोहोऽथवर्चसो भेदो दष्टे स्यात कलासकैः ॥४६५ अधिकदंशरूपैदइत्यापिरिवादौ च भिनसीयोलमाशु च । वृश्चिकस्य विष याति देशे पश्चात्तु तिष्ठति ॥४॥