पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/२४२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विषनिदानम् ६९। नविषपुरुषलक्षणम्- प्रशान्तदोष प्रकृतिस्थधातुमन्नामिकामं सममूत्रविट्कम् । प्रसन्नवणेन्द्रियचित्तचेष्ट वैद्योऽवगच्छेदविष मनुष्यम् ॥६५॥ इत्युसरार्द्धम् । इति श्रीमाधवकरविरचिते-माधवनिदाने एकोनसप्ततितम विष-निदानं समासम् ॥ ६९ ॥ विषातुरः कीदृशो निर्विषो भवतीति तमाह-प्रशान्तदोषमित्यादि । प्रशान्तदो-प्रशान्ताः स्वभावमापन्नाः, दोषा वातादयो यस्य तं तथाभूतम्। प्रकृतिस्थधातु-प्रकृतिस्था धातवो यस्य तम् । धातुपदेन रसादयो मलादयश्च संगृह्यन्ते (दथतीति धातव इति व्युत्पत्तेः) अन्नाभिकार्म-भोजनाभिलाषम् , सममूत्रविटकम् - अक्षीणानतिरिक्तमूत्रपुरीषम् । प्रसन्नवणेन्द्रियचित्तचेष्ट प्रसन्नाः-निर्मला वर्णा इन्द्रियाणि चित्तं चेष्टा च यस्य तं तथोक्तम् मनुष्यम् अविर्ष-निविर्ष, वैधः, अवगच्छेदू - जानीयात् । एतद्विपरीतलक्षणं सविर्ष जानीयात्। तथाहि- "प्रवृद्धदोषाप्रकृतिस्थधातुमनन्नकाक्षं हतमूलजिहम् । विरुद्धवर्णेन्द्रियचित्तचेष्टं गैयोऽवगच्छेत्सविर्ष मनुष्यम् ॥६५॥ इति शाहाबादमण्डलान्तर्गत 'सेमरा' ग्रामवास्तव्येन आयुर्वेदवाचस्पति- पं० रामानन्दमिमतनूजन्मना रामप्रतापकमलियाऽऽयुर्वेद- विद्यालये मुख्याध्यापकपदमलङ्कर्वता व्याकरणसाहित्या- चार्येण मिश्रोपाहोमेशानन्दशर्मणा विरचितया- 'सुधालहरी' टीकया समुल्लसितं माधव- निदानं सम्पूर्णम् ।