पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/२४६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

.. नव्यरोगनिदानपरिशिष्टम् । २३९ ५ वातकफोल्पणशीघकारिलक्षणम्- चातश्लेष्माधिको यस्य संनिपातः प्रकुष्यति । तस्य शीतज्वरो मुर्छा क्षुत्तृष्णा पार्श्वनिग्रहः ॥ १३ ॥ शूलमस्विद्यमानस्य तन्द्रा श्वासच जायते । असाध्यः संनिपातोऽयं शीघ्रकारीति कथ्यते । न हि जीवत्यहोरात्रमनेनाविष्टविग्रहः ॥१४॥ ६ पित्तकफोल्पणभल्लुलक्षणम्- पित्तश्लेष्माधिको यस्य संनिपातः प्रकृप्यति । अन्तर्दाहो बहिः शीतं तस्य तृष्णा प्रबर्द्धते ॥ १९ ॥ सुद्यते दक्षिणे पाच उराशीर्षगलग्रहः । टीवति लेष्मपितं च कृच्छाकोठश्च जायते ॥ १६ ॥ विभेदश्वासहिकाश्च बर्द्धन्ते सप्रमीलकाः । ऋषिभिर्भल्लनामाऽयं संनिपात उदाहृतः ॥ १७ ॥ ७ वातपित्तकफोल्वणकूटपाकललक्षणम्- सर्वदोषोल्वणो यस्य संनिपातः प्रकुप्यति । प्रयाणामपि दोषाणां तस्य रूपाणि लक्षपेत् ॥ १८ ॥ च्याधिभ्यो दारुणश्चैव वज्रशस्त्राग्निसनिभः । केवलोच्छ्वासपरमः स्तब्धाङ्गः स्तब्धलोचनः ॥१९॥ त्रिरात्रात्परमेतस्य जन्तोहरति जीवितम् । तदवस्थन्तु तं दृष्ट्रा मूढो व्याहरते जनः ॥ २० ॥ धर्षितो राक्षसननमवेलायां चरन्ति ये अम्बया युवते के चिद यक्षण्या ब्रह्मराक्षसैः ॥ २१ ॥ पिशाचैर्गुह्यकैश्चैव तथाऽन्टौमस्तके हतम् । कुलदेवार्चनाहोन धर्षितं कुलदैवतः ॥ २२ ॥ नक्षत्रपीडामपरे गरकति चापरे । संनिपातमिमं प्राहुभिषजः कूटपाकलम् ॥ २३ ॥ ८ अधिकवातमध्यपित्तहीनकासमोहकलक्षणम्- प्रवृवमध्यहीनैस्तु वातपित्तकफैश्च वः। तेन रोगास्त एवोक्ता यथादोषवलाश्रयाः ॥२४॥ प्रकापायाससमोह-कम्पमूरितिभ्रमाः।