पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/२७१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६४ माधवनिदाने- मथ क्रोमरोगनिदानम्। तत्रादौ लोमस्वरूपम्- अग्न्याशयः संप्रति यः स वैद्य:-क्लोमेतिनाम्नाऽऽधुनिकैनिंगयते । कुनास्ति प्राचीनभिषक्प्रदिष्ट-छोमेति नाचाप्यवधारितं हि॥१॥ निरूप्यतेऽद्धाऽऽधुनिकानुसारि-क्लोमस्वरूपं सविशेषरूपम् । भागे तु दक्षे हदयादधः स्यात्-क्लोम्नो निवासो विदुषो मतेन ॥३॥ इदं तु नन सलिलप्रवाहि-सिरकमूलं लपितं विशेषात् । तृष्णासमुत्पादनशालिचायु-वेदशवृन्दैहुशो निरीक्ष्य ॥३॥ छोमरोगनिदानम्- लोमोऽभिवृद्धिर्म दुताऽथवाऽन्नैः-सिग्भशं वा गुरुभिः सुसेवितैः । किंवाऽभिधातादिभिरेव नन-संजायते मानवदेहमध्ये ॥४॥ किंचापि संघात इहास्त्रजातः-प्रष्टश्यते विद्रधिराघवश्यम् । एवंविधा नैलविधास्तथाऽन्ये-ोगा भवेयुर्भशदारुणाश्च ॥५॥ कोमरोगलक्षणम्- अग्नेर्मान्धं पाण्डता चापि कार्य-भ्रान्तिः सादा स्यादयोोदरे तु । औष्ण्यं काठिन्य तथोत्क्लेशवान्ती-क्लोमस्थायिन्यामये कामलाऽपि प्रजाते विकार सदा विद्धेस्तु-भवेदन शूलं तथाऽऽध्मानमेव । तृषा चाधिकाऽप्यामरीतुल्यरूपा-तिघोरा शिला कष्टदायिन्यवश्यम् । इति माधवनिदानपरिशिष्टे क्लोमरोगनिदान समाप्तम् । भयौपसगिकविषूचीनिदानम् । तस्याः परिचयः- पुरा या विषूची भिषग्भिः प्रदिष्टा-मता दोषसंबन्धयुक्ता सदा सा। इदानी मया वक्ष्यते तुपसर्ग-प्रजाता विषूची महाघोररूपा ॥२॥ अर्थ लोकमध्ये तु मारीस्वरूपे-ण सर्वत्र रोगः प्रसारं मजेद्धि । ग्रहयेत संक्रामकन्याथ तत्रा-तिसारो वमिनमत्यर्थमेव ॥२॥ अस्य निदानम्-- दण्डाकारास्त्वस्य कीटाणवः सं-प्रोक्का नूनं मूलभूता भिषग्भिः । तेषां वासः प्रायको रोगिणां स्या-दन्द्र भूत्रे वा मले भाग्यदोषात् ॥३॥