पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/२८८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नव्यरोगनिदानपरिविष्टम् । विशेषतो वृक्षरोगो रक्तस्य परिवर्तनात्। नराणां जायते देहे भिषजामिति निर्णयः॥७॥ इति माधवनिदानपरिशिष्टे वृकरोगनिदान समाप्तम् । मथ शुक्रमेहनिदानम् । तत्र शुक्रमेहे हेतु:- ये हस्तमैथुनमुखातिविगीतरीत्यारेताक्षयं विदधतीह जमा विमूढाः । तेषामवश्यमतिकामवर्श गताना- जायेत दारुणगदः खलु शुक्रमेहः ॥१॥ तस्य लक्षणम्- मलमूत्रमनोजजवाधिकता-युवतिस्थविलासढस्मृतितः। पतनं यतनेन विनैवं मुहु-ननु रतस आशु भवेदनिशम् ॥२॥ अथवा प्रमदानामपि स्पृशत:-सहसा तरुणीजनदर्शनतः । स्वपने रमणीस्मणेक्षणत:-स्खलनं पुरुषस्य भवेत् क्षमतः ॥३॥ अधितन्द्रमथाप्यधिवत्म यत:-शयनं च जनस्य मनोजवतः स्मरणादवलोकनतोऽप्यचिरा-उच्यवनं प्रमदात् प्रमदाविषयात् ॥४॥ महोरात्रमध्ये प्रख्ढे गदेऽस्मिन्-नरस्य त्रिवार चतुर्वारमद्धा। उपयुक्तहेतोशच्युती रेतसः स्यात्-कचिल्लिङ्गशैथिल्यमन्ते नितान्तम्॥१॥ ततोऽनेन रोगेण संध्यूढदेहो-जनो भामिनीमानभेदेऽत्यशकः । भवनङ्गानालस्य संस्पर्शमात्रा-पच्युति रेतसो नूनमत्राभ्युपैति ॥६॥ ततोऽतीव लज्जाविषादाभिभूता-पराभूतचेता भृशं कामिनीतः। विरक्तो भवाज्जातु विक्षितगस्या-स्वयं यानथो मृत्युमीप्सेदगत्या ॥७॥ शुक्रमेहस्योपद्रवाः- बान्ध मूत्रवर्धोऽवरोधो-दृष्टासो नीलिमाऽल्पोऽप्यजीर्णम् । चातीसारो घूर्णनं मस्तकस्थ-मेहे शुक्रस्योपसर्गा हमे स्युः ॥८॥ इति माधवनिदानपरिशिष्टे शुक्रमेहनिदान समाप्तम् । भयौपसर्गिकमेहनिदानम् । तस्य परिचय:- औपसगिकमेहाल्यो-गदो यस भिवाव। पूषमेहो पणमेह-शागन्तुमेह उच्यते ॥१॥ समाति:-स्वाय बहुमुक्तवत्यां-सपाईयोनौ मदनातुरो ।