पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/३४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ज्वरनिदानम् । २५ को यस्य स तथाभूतो ज्वरोऽस्यास्तीति वातबलासकी मनुष्यः। तेन -ज्व- रेण, नित्यं मन्दज्वर:-सततं मन्दवेगेन वर्तमानज्वरः, शूनकः = शोथी, सी- दति अवसीदति । स्तब्धाङ्ग: जडताऽऽपन्नकलेवरः, श्लेष्मभूयिष्ठः = कफबहुलश्च जायत इति ॥ ५० ॥ प्रलेपकज्वरः-प्रलिम्पन्निव गात्राणि घमण गौरवेण च । मन्दज्वरविलेपी च सशीतः स्यात्प्रलेपकः ॥ ११ ॥ प्रलेपकमाह-प्रलिम्पनिवेत्यादि । धर्मेण = आतपेन, गौरवेण गुरु- त्वेन, गात्राणि = शरीराणि, प्रलिम्पतिसम्बध्नातीति । प्रलेपकः, मन्दज्वर. श्वासौ विलेपी चेति मन्दज्वरविलेपी, सशीतः = शीतयुक्तः, अयं कफपित्तजो- ज्वरः । के चित्तु त्रिदोषज एवायमित्यभिवदन्ति, यक्ष्मादौ तदुपलम्भात् ॥ ५१॥ अर्दोगज्वरः-विदग्धेऽन्नरसे देहे श्लेष्मपित्ते व्यवस्थिते । तेनार्द्ध शीतलं देहे चार्द्ध चोष्णं प्रजायते ॥ १२ ॥ विषमज्वरविशेषानाह-विदग्ध इत्यादि। अन्नरसे आहाररसे वि- दग्धे = दुष्टे, श्लेष्मपित्ते = कफपित्ते। दुष्टे पित्ते कफे च दूषिते सति, तेन हेतुना देहेऽर्द्ध शीतलं श्लेष्मणा, पित्तेन-अर्धमुष्णञ्च जायते ॥ ५२ ॥ तद्रूपान्तरमाह-काये दुष्टं यदा पित्तं श्लेष्मा चान्ते व्यवस्थितः । तेनोष्णत्वं शरीरस्य शीतत्वं हस्तपादयोः ॥ १३ ॥ काय इत्यादि । काये =कोष्ठे, अन्ते हस्तपादयोः । यदा मध्यकाये पित्त हस्तादिषु च कफी व्यवस्थितो भवति तदा च शरीरस्यौष्णमुपजायते, इति भावः । उपर्युक्तप्रतिकूल-काये श्लेष्मा यदा दुष्टः पित्तं चान्ते व्यवस्थितम् । शीतत्वं तेन गात्राणामुष्णत्वं हस्तपादयोः ॥ १४ ॥ यदा मध्यशरीरे, श्लेष्मा व्यवस्थितो भवति, हस्तपादयोश्र व्यवस्थित पित्तं जायते, तदा शरीरस्य शैत्यमुपलभ्यते । हस्ताभ्यां सहितौ पादौ हस्तपादौ तयोर्हस्तपादयोः, मध्यमपदलोपी समासः ।। ५४ ॥ शीतादिज्वरः स्वक्स्थौ श्लेष्मानिलो शीतमादौ जनयतो ज्चरे। तयोः प्रशान्तयोः पित्तमन्ते दाहं करोति च ॥ १५ ॥ त्वक्स्थाविति । यदा श्लेष्मानिलौ त्वक्स्थौ त्वचि व्यवस्थितो, तदा ज्वरस्यारम्भकाले त्वचि शीतलतां जनयतः,के चित्तु त्वक्शब्देन रसोऽपि गृह्यत- इति वदन्ति । तात्स्थ्यात् लक्षणाऽभ्युपगमात् ॥ ५५ ॥