पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/३८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ज्वरनिदानम् । स तथाभूतः, सम्पूर्णलक्षणः प्राणान्तकृत् प्राणानामन्त विनाश करोतीति विग्रहः, मारक इत्यर्थः। शीघ्र ज्वरोत्पत्तिकाले इन्द्रियनाशनः इन्द्रियाणां कर्मेन्द्रियाणां हस्तपादगुदोपस्थरसनानां चतुःश्रोत्रघ्राणरसनस्पर्शनानां शाने- न्द्रियाणाञ्च, उभयात्मकस्य मनसश्च नाशन: सामोपघातकः ।। ७७ ।। पुनश्च-ज्वरः क्षीणस्य शूनस्य गम्भीरो दैर्घरात्रिकः । असाध्यो बलवान् यश्व केशसीमन्तकृज्ज्वरः ॥७८ ॥ शूनस्य-शोथयुक्तस्य, दैर्धरात्रिका बहुकालानुबन्धी, गम्भीरोऽन्तर्धा- तुस्थः केशानां सोमन्न योऽकस्मात् करोतीति केशसीमन्तकृत् ॥ ७८ ॥ गम्भीरज्वररूप-गम्भोरस्तु ज्वरो जेयो यन्तहिन तृष्णयो । आनद्धत्वेन चात्यर्थे श्वासकासोद्गमेन च ॥ ७९ ॥ आनद्धत्वेन बद्धमलत्वेन ॥ ७९ ॥ असाध्यगम्भीर:-आरम्भाद्विषमो यस्तु यश्च वा दैर्घरात्रिकः । क्षीणस्य चातिरूक्षस्य गम्भीरो यस्य हन्ति तम् ॥८॥ असाध्यज्वरः-विसंज्ञस्ताम्यते यस्तु शेते निपतितोऽपि वा। शीतादितोऽन्तरुणश्च ज्वरेण म्रियते नरः ॥ ८१॥ असाध्यज्वरी-यो हृष्टरोमा रक्ताक्षो हृदि संघातशुलवान् । वस्त्रेग चंचोच्छ्वसिति तं ज्वरो हन्ति मानवम् ॥ ८२ ॥ हृटरोमा रोमाञ्चितशरीरः, रक्ताक्षो रक्तनयनः,वक्त्रेण=मुखेन, उ. च्वसितेफर्ध्वश्वास गृह्णाति, एत्र पदेन नासाव्यवच्छेदः ।। ८२ ॥ अपरः-हिक्काश्वासतृषायुक्तं मूई विभ्रान्तलोचनम् । सन्ततोच्छ्वासिने क्षीण नरं क्षपयति ज्वरः ॥ ८३ ॥ विभ्रान्त लोचनंभ्रान्तनेत्रम् ॥ ८३ ॥ अपरः-हतप्रभेन्द्रिय क्षाणमरोचकनिपीडितम् । गम्भीरतीक्ष्णवेगात ज्वरित परिवर्जयेत् ॥ ८४ ॥ हतप्रभेन्द्रियं-हता प्रभासामध्ये येषां तानि हतप्रभाणि - विगतसामर्थ्यक. न्ति स्त्रविषयाग्राहीणीत्यर्थः । इन्द्रियाणि -चक्षुरादीनि यस्य तं तथोक्तम् । ग- म्भीरोऽन्तर्वेगः, तीक्ष्णोऽनिकष्टदः, बहिरन्तश्च ताभ्यामात-पीडितम् ,ज्वरि- सं-सज्जातज्वर, ज्वरः सजातोऽस्येति विग्रहः तदस्य सातमिति' श्तच प्रत्ययेन साधुः ।। ८४॥