पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/४१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सुधोपेते माधवनिदाने- कोठं गत्वा क्षोभयेत्तस्य रक्तं तवाधस्तात्काकणन्तीप्रकाशम् ॥१०॥ निर्गच्छेद्वै विड्विमिश्नं यविड्वा निर्गन्धं वा गन्धवद्वाऽतिसारः । शोकोत्पन्नो दुश्चिकित्स्योऽतिमात्र रोगो वैद्यः कष्ट एष प्रदिष्टः ॥ ११ ॥ शोकजातीसारमाह-तैस्तैरित्यादि। तेस्तै ः धनबन्धुनाशादिभिः ॥ शो- चतः शोकं विदधतः, अतएव अल्पाशनस्य-अल्प भुञानस्य नरस्य-पुंसः। बाष्पोष्मा-बाष्पं नेत्रनासाऽऽदिच्युतं जल तत्सहितऊष्मा शोकजं शरीरतेजः। कोष्ठं गत्वा वसिमाविश्य-जठराग्निाव्याकुलीकृत्य तस्य रक्त क्षोभयेत सञ्चा- लयेत् । तच्च रक्त काकणन्तीप्रकाश गुआफलसदृशम् , अधस्तान्निर्गच्छेत- गुदद्वारेति भावः । तच्च रक्तं विड्विमिश्र पुरीषयुक्तम् । अविड वा-मलर- हितं वा, निर्गन्धं-गन्धवर्जितम् । गन्धवद् वा गन्धयुतं वा। निर्गच्छेत् = गुदेनाधस्तान्निस्सरेत् । एषः शोकोत्पन्नः शोकोऽतीसारः, अतिमात्र दुश्चि- कित्स्यः । कष्टा-कृच्छसाध्यः, वैधैः प्रदिष्टः कथितः ॥ १०-११ ॥ श्रामातीसारलक्षणम्- अन्नाजीर्णात्प्रद्रुताः क्षोभयन्तः कोष्ठं दोषा धातुसंघान्मलांश्च । नानावणे नेकशः सारयन्ति शूलोपत षष्ठमेनं वदन्ति ॥१॥ आमातीसारमाह--अन्नाजीर्णाद् अन्नञ्च तदजीर्णमन्नाजीर्ण तस्मात् , अन्नापरिपाकात् । प्रद्रुताः विमार्गगताः, दोषाः, धातुसङ्घान्-धातुबृन्दान् । मलांश्च, क्षोभयन्तः सञ्चालयन्तः, दूषयन्त इति यावत् । नानावर्णम्-अने- कवर्णविशिष्टं, शूलोपेतं वेदनोपद्रुतं, नैकशः अनेकवारान् , सारयन्ति रेच- यन्ति । एनं षष्ठमतिसारं वदन्ति वैद्या इति शेषः ॥ १२ ॥ प्रामलक्षणं-संसृष्टमेभिर्दोषस्तु न्यस्तमप्स्ववसीदति । पुरीषं भृशदुर्गन्धि पिच्छिल चामसंज्ञितम् ॥ १३ ॥ चिकित्सासौलभ्यार्थमामलक्षणमाह-संसृष्टत्यादि। एभिषिः संसृष्टं सम्बद्धम् । अप्सु-जलेषु । न्यस्तंक्षिप्तम् । पुरीषं = विष्ठा, अवसीदति- निमज्जति । भृशदुर्गन्धि अत्यन्तदुर्गन्धम् । पिच्छिल चिकणम् । आमस- शितं जानीयात् ॥१३॥ पक्कलक्षण-एतान्येव तु लिङ्गानि विपरीतानि यस्य वै। लाघवं च विशेषेण तस्य पक्वं विनिर्दिशेत् ॥१४॥