- भूमिका *-
विदाङ्कुर्वन्तु तावत्समस्तविद्याऽपारपारावारावगतान्तास्तत्र भवन्तो भवन्त इह खलु निखिलेऽपि जगतीतले ये मानवा दरीदृश्यन्ते, ते सर्वे 'सुखमनुभवेम, दुःखं च मा स्पृशेम' इति वासनावासितान्तःकरणा एव सम्भाव्यन्ते । सुखन्तु द्विविधम्-ऐहिकमामुष्मिकञ्चेति । तत्रैहिकं-विषयवासनामूल- मामुष्मिकन्त्वविनश्वरं वास्तविकञ्चेति । तद् द्विविधमपि सुखं शास्त्रोपासना. धीनं शास्त्राणि चाप्यनेकानि परन्तु सुस्थातुरपरायणं चिकित्साशास्त्रमेव प्राणा इव प्रियतमं प्रतिभाति समेषां मानवानाम् । भारतीयं चैतच्चिकित्साशास्त्रं शल्य-शालाक्य-कौमारभृत्या-ऽगदतन्त्र- कायचिकित्सा-भूतविद्या-रसायन-वाजीकरणाख्येष्वष्टविधेष्वङ्गेषु विभक्त- मस्ति, तेषु सर्वेष्वङ्गेपु महामहिमशालिभिः परमकारुणिकैस्तपोधनैरनेकैः पूज्य- वर्यैरनेकानि तन्त्राणि पृथक् पृथग् निर्मितानि। परन्तु कालमहिम्ना प्रायः- सर्वाणि तन्त्राणि कथामात्रशेषाणि सम्प्रति समुपलभ्यन्ते । कायचिकित्साप्रधानं चरकतन्त्रं, शल्यचिकित्साप्रधानं सुश्रुततन्त्रं, च सम्प्रति दृष्टिपथमायाति । अत्र सूत्रं, शारीरं, निदानं, चिकित्सा, ऐन्द्रियं, कल्पं, विमानं, सिद्धिश्चेत्यष्टौ स्थानानि निर्दिष्टानि । तत्र- आदौ निदानविधिना विदध्याद् व्याधिनिश्चयम् । इति वचनात् सर्व- प्रथमं निदानस्यैवावश्यकतया निदानमन्तरेण चिकित्साया असम्भवान्निदान. स्यापरेभ्यो मुख्यत्वम् ।