पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/५५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४६ सुधोपेते माधवनिदाने- तृष्णा गुदस्य पाकश्च निहन्युर्मुदजातुरम् ॥ ४०॥ उपद्रवमाह-हस्त इत्यादि । यस्य अर्शोरोगयुक्तस्य, हस्तादिषु शोथ: सोऽसाध्यः ॥ ३९-४०॥ अपरञ्च-तृष्णाऽरोचकशूलार्त्तमतिप्रश्नुतशोणितम् । शोथातिसारसंयुक्तमझेसि क्षपयन्ति हि ॥४१॥ तृष्णाऽऽदिपीडितम् , अतिप्रनुतशोणितम् = अतिशेयन रक्तप्रवाहयु क्तम् । क्षयपन्ति = विनाशयन्ति ॥ ४१ ।। लिङ्गादावीसि-मेढ़ादिष्वपि वक्ष्यन्ते यथास्वं नाभिजानि च । गण्डूपदास्यरूपाणि पिच्छिलानि मृदूनि च ॥ ४२ ॥ मेदादिषु = लिङ्गादिष्वपि यथास्वमीसि वक्ष्यन्ते नाभिजानि च, गण्डूप- दास्यरूपाणि किञ्चलिकमुखसदृशानि, मृदनि सुकुमाराणि, भवन्तीतिशेषः ४२ चर्मकीलसम्प्राप्तिः-व्यानो गृहीत्वा श्लेष्माणं करोत्यर्शस्त्वचो बहिः । कीलोपमं स्थिरखरं चर्मकीलं तु तद्विदुः ॥ ४३ ॥ चर्मकीलमाह-व्यानः = सकलदेहचरो वायुः, श्लेष्माणं-कर्फ, गृहीत्वा त्वचो बहिः कीलोपम, स्थिरखर निश्चलत्वेन वर्तमान सत्खरस्पर्श, तं चर्म- कोलम् = एतन्नामधेयं रोगं विदुः ॥४३॥ तल्लक्षणं-वातेन तोदपारुष्यं पित्तादसितवक्त्रता। श्लेष्मणा स्निग्धता चास्य ग्रथितत्वं सवर्णता ॥४४॥ (अर्शसां प्रथमे चित्तमाशु कुर्वीत बुद्धिमान् । तान्याशु हि गुदं बध्वा कुर्युर्बद्धगुदोदरम् ॥ ४५ ॥ इति श्रीमाधवकरविरचिते माधवनिदाने पञ्चममर्शोरोग- निदानं समाप्तम् ॥६॥ तस्यैव वातादिभेदेन लक्षणमाह-असितवक्त्रता= नीलमुखत्वम् , स- वर्णता-शरीरस्य तुल्याकृतित्वम् ॥ ४४ ॥ इति सुधायामर्शोरोगनिदानं समाप्तम् । अथ षष्ठमग्निमान्यजीर्ण विचिका-इलसक- विलम्बिका-निदानम् ॥ ६॥ अग्निमान्धवर्णन-मन्दस्तीक्ष्णोऽथ विषमः समश्चेति चतुर्विधः । कफपितानिलाधिक्यात्तत्साम्बाज्जाठरोऽनलः ॥१॥ .