पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/५६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अनिमान्धादिनिदानम् ६ । १७ । अग्नेश्चातुर्विध्यमाह-मन्द इत्यादि । कफाधिक्यान्मन्दः, पित्ताधिक्या त्-तीक्ष्णः, अनिलाधिक्याविषमः, तत्साम्यात् - कफादीनां साम्यात् , समो जाठरोऽनल इति । जाठर इति कथनाद् भूताबग्निन्यवच्छेदो जायते ॥१॥ तत्काय्र्यम्-विषमो वातजान् रोगास्तीक्ष्णः पित्तनिमित्तजान् । करोत्यग्निस्तथा मन्दो विकारान् कफसम्भवान् ॥२॥ तेषां कार्यमाह-विषम इत्यादि । विषमो वातजान् रोगान् करोति। तीक्ष्ण: पित्तजान् व्याधीजनयति । मन्दः श्लेष्मनिमित्तजान् रोगानुत्पादयति ॥२॥ समा समाग्नेरशिता मात्रा सम्यग्विपच्यते । स्वल्पाऽपि नैव मन्दाग्नेविषमाग्नेस्तु देहिनः ॥३॥ कदा चित्पच्यते सम्यकदा चिन्न विपच्यते । मात्राऽतिमात्राऽप्यशिता सुर्ख यस्य विपच्यते । तीक्ष्णाग्निरिति तं विद्यात्समाग्निः श्रेष्ठ उच्यते ॥४॥ तेषां रूपमाह-समा उचिता मात्रा भोजनस्य सम्यग् यस्य पच्यतेऽसौ समाग्निः । स्वल्पाऽपि मात्रा भुक्ता सम्यग न पच्यतेऽसौ मन्दाग्निः । कदा चिन्न पच्यते वा कदाचित्सम्यक् पच्यते स विषमाग्निः। मात्राऽतिमात्राऽपि भुक्ता सुखं यस्य पच्यतेऽसौ तीक्ष्णाग्निः । अस्यैव 'भस्मक' इति संज्ञा तन्त्रा- न्तरे । एतेषु समाग्निः श्रेष्ठ उच्यते ।। ३-४ ॥ तत्संख्या च-आमं विदग्धं विष्टब्धं कफपित्तानिलैत्रिभिः । अजीर्ण के चिदिच्छन्ति चतुर्थे रसशेषतः ॥ ५ ॥ अजीर्ण पञ्चमं के चित्रिदोष दिनपाकि च । वदन्ति षष्ठं चाजीर्ण प्राकृतं प्रतिवासरम् ॥६॥ अग्निमान्धाजीर्णयोः परस्परं हेतुत्वादजीर्णान्याह-आममित्यादि। त्रिभिः कफपित्तानिलैः, आम-विदग्ध-विष्टब्धमिति । त्रिविधमजीर्णं के चिदाम- नन्ति। त्रिमिरिति कफादिमिरेकैकशो यथासंख्यमन्वयो बोध्यः । के चिच्च रसशेषतः। रसाय शेषो रसशेषस्तस्मात् , चतुर्थमजीर्णमिच्छन्ति के चिद् नि- दोष दिनपाकि पञ्चममजीर्णमिच्छन्ति। प्राकृत-स्वाभाविक, प्रतिवासर चाजीणं षष्ठमिति के चिद् वदन्ति । प्रामादिअयमजीर्षमाज रसशेषस्याहारसज- इति परस्पर भेदः । वातादिलिताल्पत्वातुलक्षणचिकित्साभेदोऽपि भवति ॥५-६॥ ।