यद्यपि चरकादौ तत्र तत्र निदानोपादानमस्ति तथाऽपि सर्वेषां रोगाणा. मेकत्र सुगमतयोल्लेखः क्वापि नास्तीति महता परिश्रमेणेन्दुकरात्मजेन श्री माधवकरेण चरकसुश्रुतप्रभृतिमुख्याचार्याणां निर्दिष्टवाक्यान्यादाय प्रायः सर्वेषामेव रोगाणां निदान-पूर्वरूप-रूपो-पशये-सम्प्रात्यु-पद्रव-साध्या- साध्यविचारात्मको रोगविनिश्चयो माधवनिदानाख्यो ग्रन्थो निरमायि । अस्य ग्रन्थस्य बहुश उपयोगितां निरीक्ष्यानेकशो मनीषिणो व(ब)ह्वीष्टीका- विरचितवन्तः। यासु सम्प्रति मधुकोशातङ्कदर्पणाभिधे द्वे टीके समुपयुक्ते समु- पलभ्येते । तत्राद्या-मधुकोशनाम्नी टीका बहुविस्तृतत्वात्परीक्षार्थिनामनुपयुक्ता द्वितीया-आतङ्कदर्पणाभिधा त्वतिक्कृिष्टत्वादपि च्छात्राणां न तादृशी सन्तोषज- ननी, इमामनुपपत्तिं बहुशो विलोक्याधुनिकानां परीक्षार्थिच्छात्राणां सौलभ्यमी- प्सुभिश्चौखम्भापुस्तकालयाध्यक्षैः श्रीजयकृष्णदासश्रेष्ठिमहोदयैर्बहुशः प्रोत्सा- हितोऽहमिमां परीक्षार्थिच्छात्रकदम्बोपयोगिनीं नातिसंक्षेपविस्तरां गूढशब्दार्थ- भावोद्बोधिनीं स्थले स्थले च पारस्परिकभेदवर्णनपरां "सुधालहरीति नाम्नीं संक्षिप्तटीकां निर्माय श्रेष्ठिमहोदयेभ्य उपायनीकरोमि समयस्याल्पतया नानाकार्यजालग्रस्तचेतसः प्रमादाद्वा यत्र कुत्रापि सम्भूतं स्खलनं भवेत्तर्हि गुण- मात्रैकपक्षपातिनो भवन्तो विद्वद्वरेण्या बोधनेनानुकम्पनीयोऽयं जन इति साञ्जलि समभ्यर्थये- श्रीगङ्गादशहरायाम् वि० सं० २००० } विदुषां वशंवदः- उमेशानन्दमिश्रः
पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/६
एतत् पृष्ठम् परिष्कृतम् अस्ति