पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/६९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

2 ६० सुधोपेते माधवनिदाने- राजयक्ष्मणि रक्तदर्शनसम्भवाद्रक्तपित्तानन्तरं राजयक्ष्मप्रसङ्गः। वेगरो. धादू-वेगानां वातमूत्रपुरीषाणां रोधाद-निग्रहात, क्षयात्-नीयतेऽनेनेतिक्षय- इति व्युत्पत्तेर्धातुक्षयकारणानि गृह्यन्ते। त्रिदोषः- दोषत्रयदुष्ट एक एव न तु हेतुभेदादनेकविधः । यदाह-एक एव मतः शोषः सन्निपातात्मको यतः उद्रेकातन्त्र लिङ्गानि दोषाणां निपतन्ति हि । ननु वेगरोधादीनां वातप्रकोप- कत्वेन त्रिदोषजस्य राजयक्ष्मणः कारणत्वं कथं सम्भवतीति चेदत्रोच्यते। वात- प्रकोपाद् वहिदुष्टया श्लेष्मपित्तयोरपि दुष्टिसम्भवात् ॥१॥ सम्प्राप्तिः-कफप्रधानैर्दोषस्तु रुद्वेषु रसवर्त्मसु । अतिव्यवायिनो वाऽपि क्षीणे रेतस्यनन्तराः । क्षीयन्ते धातवः सवें ततः शुष्यति मानवः ॥२॥ सम्प्राप्तिमाह-कफेत्यादि । कफप्रधानः, दोषैः, रसवम॑मु- रसवाहिनीषु धमनीषु, रुद्धेषु, अतिव्यवायिनः = मैथुनमतिभजतः, पुंसः, रेतसि-वीर्ये क्षीणे सति, अनन्तरा:- समीपगाः, धातवः दीयन्ते, शुक्रे क्षीणे मज्जा क्षीयते मजनि क्षीणेऽस्थि दीयत इत्यादि, ततो मानवः, शुष्यति-कृशत्वं याति ॥२॥ पूर्वरूप-श्वासाङ्गमर्दकफसस्रवतालुशोष- वम्यग्निसादमदपीनसकासनिद्राः। शोषे भविष्यति भवन्ति, स चापि जन्तुः शुक्लेक्षणो भवति मांसपरो रिरंसुः ॥३॥ स्वप्नेषु काकशुकशल्लकिनीलकण्ठा गृध्रास्तथैव कपयः कृकलासकाच । तं वाहयन्ति स नदीविजलाश्च पश्येच्छुकास्तरूपवनधूमदवादितांचा पूर्वरूपमाह-श्वासेति । भविष्यति-उत्पत्स्यमाने, शोषे राजयक्ष्मणि, एतानि भवन्ति। कफर्सनवः श्लेष्मष्ठीवनम् , अग्निसादा वह्निमान्धम् , पीनसः-प्रतिश्यायः, शुक्लेक्षणः - शुभ्रनेत्रः, मांसपर: पिशिताधिकभोजने- च्छुः, रिरसुःम रन्तुमिच्छति रिरसति, रिरसतीति रिरंसुः = रमणीरमणेच्छुः, 'सनाशंसभिक्ष उइत्युप्रत्ययः । नीलकण्ठः = मयूरः, कपयः वानराः, एक- खासका सरटाः, विजला नदी:-निर्जलापगाः, दवः वनाग्निः, अदितान अमिभूतान् , चकारात् तृणकेशपातादीनामपि संग्रहः ॥ ३-४ ॥ क्षयस्य त्री-अंसपाश्वामितापश्च सन्तापः करपादयोः । णि रूपाणि-ज्वरः सर्वाङ्गगाचेति लक्षणराजयक्ष्मणः ॥५॥ .