पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/७९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सुधोपेते माधवनिदाने- तदा, तेन- श्लेष्मणा, रुखः- आक्रान्तो वायुः, पीनस प्रतिश्याय धुर्धरकं क- रोति, प्राणप्रपीडक-हृदयविदारक श्वासं च करोति, तस्यैव च श्लेष्मणा, विमोक्षान्ते-विसर्गान्ते, मुहूर्त क्षणमात्र, सुखं लभते, समीरणः-वायु:- पार्वे ( कर्मपदम् ) अवगृह्णाति - अर्दयति । उच्छिते- उच्छूने, अक्षिणी यस्य स तथा उच्छ्रिताक्षः, ललाटेन स्विधता (उपलक्षणे तृतीया ) अवध- म्यते - चाल्यते ॥ २९-३५॥ मेषाम्बुशीतप्राग्वातैः श्लेष्मलेश्च विबर्द्धते स याप्यस्तमकः श्वासः साध्यो वा स्यान्नवोत्थितः ॥३६॥ प्रतमकलक्षणम्-ज्वरमूर्छापरीतस्य विद्यात्प्रतमकं तु तम् ॥ ३७॥ तस्यैवान्यो हेतु-उदावतरजोऽजीर्णविन्नकायनिरोधजः । लक्षणं च- तमसा वर्धतेऽत्यर्थे शीतश्चाशु प्रशाम्यति । मज्जतस्तमसीवास्य विद्यात्संतमकं तु तम् ॥ ३८॥ प्रतमकमाह-ज्वरेति । ज्वरादिपरीतस्य तं तमकं प्रतमकमिति विद्यात् । उदावत्तों रोगः, रजो-रेणुः, अजीर्णम् - अपकता, क्लिन्न-विदग्धं, काये। शरीरे, निरोधो -वेगानाम् । तमसा बर्धतेऽत्यर्थं शीतैव्यैः प्रशाम्यति, तम. सि-अन्धकारे, मज्जतस्तस्य, ते प्रतमक, सन्तमकं विद्यात् ॥३७-३८ ॥ क्षुद्रश्वासः-रुक्षायासोद्भवः कोष्ठे क्षुद्रो वात उदीरयन् । क्षुद्रश्वासो न सोऽत्यर्थे दुःखेनाङ्गप्रबाधकः ॥ ३९ ॥ हिनस्ति न स गात्राणि न च दुःखो यथेतरे । न च भोजनपानानां निरुणद्धयुचितां गतिम् ॥ ४० ॥ नेन्द्रियाणां व्यथा नापि काशिदापादयेद्रुजम् । स साध्य उक्को बलिनः सर्वे चाव्यकलक्षणाः॥४१॥ । रक्षायासोद्भवः- रूक्षपदार्थभोजनात्परिश्र- माञ्चोत्पन्नः, क्षुद्रो वातः कोष्ठे, उदीरयन् - ऊध्र्व गच्छन् , प्रत्यर्थम् , अप्रवाधकः शरीरक्लेशको, न भवति । स क्षुद्रो न दुःखः (दुःखयतीति दुःखः) क्लेशप्रदो न भवति, भोजनपानानाम् , उचित-नैसगिकी, गति, न निरुणद्धि-नावृणोति ॥ ३९-४१ ।। साध्यासा- क्षुद्रः साध्यो मतस्तेषां तमकः कृच्छ्र उच्यते । भ्यता- अयः श्वासा न सिध्यन्ति, तमको दुर्वलस्य ॥४॥ क्षुद्रश्वासमाह-रूति