पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/८७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सुधोपेते माधवनिदाने- पुनरतिशयेन पिवति, तथाऽपि सुखं न याति । यद्यपि विशेषजलपानं तृष्णामात्र. व्यापि तथाऽप्यत्र विशेषत इति ध्येयम् ॥ ७॥ आमजा-त्रिदोषलिङ्गाऽऽमसमुनवा च हच्कूलनिष्ठीवनसादकत्री। भक्तजा-स्निग्धं तथाऽम्लं लवणं च भुक्तं गुर्वन्नमेवाशुरुषां करोति ॥८॥ कष्टसाध्या-६ -दीनस्वरः प्रताम्यन् दीनः संशुष्कवनगलतालुः । भवति खलु योपसर्गात्तृष्णा सा शोषिणी कष्टा ॥९॥ उपसर्गजामाह-दीनेत्यादि । या तृष्णा, उपसर्गात-उपद्रवात ,रोगादिति यावत् । सा शोषिणी कष्टा च विशेया, तया, दीनस्वर:-क्षामवचनः, प्रताम्यन् = मुखन् , संशुष्कवनगलतालुश्च भवति ॥९॥ असाध्यास्ता:-ज्वरमोहक्षयकासश्वासाघुपसृष्टदेहानाम् । सर्वास्त्वतिप्रसक्ता रोगकृशानां वमिप्रयुक्तानाम् ॥ घोरोपद्वयुक्तास्तृष्णा मरणाय विज्ञेयाः ॥१०॥ (क्षीणं विचितं बधिरं तृषाऽऽत विवर्जयेनिर्गतजिहमाशु)११॥ इति श्रीमाधवकरविरचिते माधवनिदाने षोडर्श सृष्णानिदानं समाप्तम् ॥ १६ ॥ असाध्यलक्षणमाह-ज्वरेत्यादि । सर्वाः-निखिलदोषजाः, अतिप्र- सकाः-अतिशयेन वृद्धाः, रोगकृशाणांच्याधिदुर्वलानाम्, वमिप्रयुक्तानां छदिनिमित्तानाम् , घोरोपद्रवयुक्ताः- मुखशोषाधुपद्रवसंयुताः॥१०॥ इति सुधायां तृष्णानिदानम् ।। अथ सप्तदर्श मूर्छा-भ्रम-निद्रा-तन्द्रा-संन्यास- निदानम् ॥ १७ ॥ मू हेतु:-क्षीणस्य बहुदोषस्य विरुवाहारसेविनः । वेगाघातादभिघाताबीनसत्त्वस्य वा पुनः ॥१॥ मूर्छासम्प्रा-करणायतनेमा बाष्वाभ्यन्तरेषु च । प्ति:- निविशन्ते यदा दोषास्तदा मूर्च्छन्ति मानवाः ॥५॥ संज्ञावहासु नाडीषु पिहितास्वनिलादिभिः । तमोऽभ्युपैति सहसा सुखदुःखव्यपोहकृत् ॥३॥ सुखदुःखब्धपोहा नरः पतति काटवत् । मोहो मूच्छेति तामाहुः परविधा सा प्रकीर्तिता॥४॥