पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/८९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सुधोपेते माधवनिदाने- 2 पित्तजामाह-रक्तमित्यादि । वियद् - आकाश, रक्तहरिदादिवर्ण पश्य- ति, सस्वेदश्च - सधर्मश्च, प्रबुध्यतेससंशो भवति, संभिन्नवर्चा: सृष्ट- पुरीषः ॥ ९-१०॥ कफमूछा- मेघसङ्काशमाकाशमावृतं वा तमोधनः । लक्षणम्- पश्यंस्तमः प्रविशति चिराच्च प्रतिबुध्यते ॥ ११ ॥ गुरुभिः प्रावृतैरङ्गैर्यथैवाट्टेण चर्मणा । सप्रसेकः सहल्लासो मूच्र्छाये कफसम्भवे ॥ १२ ॥ कफजामाह-मेघेत्यादि । मेघसङ्काशम्-अभ्रसदृशम् , तमोधनैः अन्ध. कारमेघः, आवृत छन्नं, प्रसेकः प्रास्यनावः, हल्लासः - उपस्थितवम- नत्वमिव ॥ ११-१२ ॥ त्रिदोषमूर्छा-सर्वाकृतिः सन्निपातादपस्मार हवागतः लक्षणम्-- स जन्तुं पातयत्याशु विना बीभत्सचेष्टितैः ॥ १३ ॥ सान्निपातिकीमाह-सवेत्यादि । सर्वेषां वातादीनामाकृतिर्लक्षणं यत्र सा सर्वाकृतिः, बीभत्सचेष्टितविना फेनवमनदन्तघटनाक्षिवैकृतादिकं विना, श्र- पस्मार इव जन्तुं नरं, पातयति । यथाऽपस्मारी महताऽभिघातेन पतति चिरेण प्रतिबुध्यते, तथा फेनवामित्वहस्तपादादिविक्षेपणमधिकमपस्मारादाविति भेदः॥१३॥ रक्तजमूर्छा-पृथिव्यापस्तमोरूप रक्तगन्धस्तदन्वयः । हेतु:- तस्माद्रक्तस्य गन्धेन मूर्च्छन्ति भुवि मानवाः ॥१४॥ तत्रान्यमतं- द्रव्यस्वभाव इत्येके दृष्ट्वा यदभिमुह्यति ॥ १५ ॥ रक्तजामाह-पृथिव्याप इत्यादिना । पृथिव्यापः, तमोरूपं तमोबहुलं, तदन्वयः तत्सम्बन्धः, पृथिवीजलमय इति यावत् । द्रव्यस्वभावः-रक्त- स्यायं स्वभावः प्रकृतिः, यद्रक्तं दृष्ट्वा, अभिमुह्यति-मूर्च्छति, इत्येके॥१४-१५॥ विषमद्यमूछा-गुणास्तीग्रतरत्वेन स्थितास्तु विषमथयो। लक्षणम्- त एव तस्मात्ताभ्यां तु मोहौ स्याता यथेरितौ ॥१६॥ विषमथजे गुणान् प्राह-गुणा इत्यादि। विषमययोर्गुणास्तीव्रतरत्वेन स्थिताः “लघु रुक्षमाशु विशदं व्यवायि तीक्ष्णं विकाशि सूक्ष्मञ्च । उष्णमनिर्देश्यरस दशगुणमुक्तं विषं सः इति । त एवं लघुत्वादयो. गुणाः, यथेरितौ यथाऽभिहिती, विषजो मोहो न स्वयं निवर्तते विषस्यावि- पाकित्वात् , मद्य बस्तु-मयपरिणामादेव स्वयं शाम्यतीति परस्परं भेदः । प्रभाव- विशेषात् ॥१६॥ ,