पुटमेतत् सुपुष्टितम्
६६
॥ चतुर्थोङ्कः ॥
- विदूषकः । १देविं देख्खिस्संति आ आरपुफ्फग्गहणकालणादो
- प्पमदवणं गदोम्हि । परित्ता अदु परित्ता अदु ।
- देवी । २हध्धि हध्धि । अहं एव्व बम्हणस्स जीविदसंसए णिभित्तं जादा ।
- विदूषकः । ३तहिं असो अथ्थव अस्स कालणादो मए प्पसारिदे
- अग्गहथ्थे कोडरणिग्गदेण कालेण सप्परूविणा दठ्ठो ।
- णं एदाइं दुव्वे दन्तपदाइं ।इति दंशं दर्शर्यति ।
- परिव्राजिका । तेन हि दंशच्छेदः पूर्वकर्मेति श्रूयते । स
- तावदस्य क्रियताम् ।
- छेदो दंशस्य दाहो वा क्षतेर्वा रक्तमोक्षणम् ।
- एतानि दष्टमात्राणामायुषः प्रतिपत्तयः ॥४॥
- तावदस्य क्रियताम् ।
- राजा । संप्रति विषवैद्यानां कर्म । जयसेने क्षिप्रमानीयतां
- ध्रुवसिद्धिः ।
- प्रतीहारी । ४जं देवो आणवेदि ।
- [इति निष्क्रान्ता ]
- विदूषकः । ५अहो पावेण मिच्चुणा गहीदोम्हि ।
- १. देवीं द्रक्ष्यामोत्याचारपुष्पग्रहणकारणात् [i.e. ग्रहणाय ] प्रमदवनं गतोस्मि । परित्रायतां परित्रायताम् ।
- २. हा धिक् हा धिक् । अहमेव ब्राह्मणस्य जीवितसंशये निमित्तं जाता ।
- ३. तत्राशोकस्तबकस्य कारणात् [i.e अशोकस्तबकाय] मया प्रसारितेग्रहस्ते कोटरनिर्गतेन कालेन सर्परूपिणा दष्टः । नन्वते द्वे दन्तपदे ।
- ४. यहेव आज्ञापयति ।
- ५. अहो पापेन मृत्युना गृहीतोस्मि ।
|
|