पुटमेतत् सुपुष्टितम्
८४
॥ चतुर्थोङ्कः ॥
- विदुषकः । सप्रहासम् । १कहं दण्डकठ्ठं इदं । अहं उण जाणे जं
- मए केअइकण्डएहिं सप्पस्स विअ दंसो किदो तं फलिदंति ।
। प्रविश्य पटाक्षेपेण बकुलावलिका ।
- बकुलावलिका । ससंभ्रमम् । २कहिं सप्पो । मा ख्खु भट्टा पविस । इह कुडिलगइ सप्पो विअ दीसइ ।
- इरावती । राजानमुपसृत्य । ३अवि सिध्धा मणोरहा दिवासंकेदमिहुणस्स ।
- सर्वे । इरवतीं दृष्ट्वा संभ्रान्ताः ।
- राजा । अपूर्वोयमुपचारः।
- इरावती । ४बउलावलिए दिठ्ठिआ दोच्चहिआरविसआ संपु-
- ण्णा दे पडिण्णा ।
- बकुलावलिका । ६पसीददु भट्टिणी । किं दद्दुरा वाहरन्तित्ति देव्वो पुडविं विसुमरदि ।
- १. कथं दण्डकाष्ठमिदम् । अहं पुनर्जाने यन्मया केतकीकण्टकैः सर्पस्येव दंशः कृतस्तल्फलितमिति ।
- २. क्व सर्पः । मा खलु भर्तः प्रविश । इह कुटिलगविः सर्प इष दृश्यते ।
- ३. अपि सिद्धा मनोरथा दिवासंकेतमिथुनस्य ।
- ४. बकुलावलिके दिष्ट्या दौत्याधिकारविषया संपूर्णा से प्रतिज्ञा ।
- ५. प्रसीदतु भट्टिनी । किं दर्दुरा व्याहरन्तीति देवः पृथिवीं विस्मरति ।
|
|