पृष्ठम्:मालविकाग्निमित्रम्.djvu/१४६

पुटमेतत् सुपुष्टितम्
९९
॥ मालविकाग्निमित्रम् ॥
राजा । कस्यां कलायामभियोगो भवत्योः ।
उभे। २संगीदए अभ्भन्तरम्ह ।
राजा । देवि ग्रुह्यतामनयोरन्यतरा ।
देवो । २मालविए इदो देख्ख कदरा संगीदसहाइणी रुच्चइ ।
उभे । मालविकां दृष्ट्वा । ३अम्हो भट्टिदारिआ । प्रणिपत्य सह तया वाष्पं विसृजतः ।

। सर्वे सविस्मयमालोकयन्ति ।

राजा । के भवत्यौ का चेयम् ।
प्रथमा । देव इअं अम्हाणं भट्टिदारिआ ।
राजा । कथमिव ।
उभे । ५सुणादु भट्टा । जो सो भट्टिणा विअअदण्डेहिं विदभ्भणाहं वसीकरिअ बन्धणादो मोइदो कुमारो माहवसेणो णाम तस्स इअं कणीअसी भइणी मालविआणाम ।

१. संगीतकेभ्यन्तरे स्वः ।
२. मालविके इतः प्रेक्षस्व कतरा संगीतसखी रोचते ।
३. अहो भर्तृदारिका ।
४. देव इयमावयोर्भर्तृदारिका ।
५. शृणॊतु भर्ता । योसौ भर्त्रा विजयदण्डैर्विदर्भनाथं वशीकृत्य बन्धनान्मोचितः कुमारो ::माधवसेनो नाम तस्येयं कनीयसी भगिनी मालविका नाम ।

2. D E संगीतए.
4. F' दख्ख -B संगीत '.— A C
सहायिणी.
5. A B C D E भट्टदारिआ.
9. A ईअं; D इयं.–A c भट्टार;
B D E भट्ट°.
12. B करोअ