पृष्ठम्:मालविकाग्निमित्रम्.djvu/१४८

पुटमेतत् सुपुष्टितम्
१०१
॥ मालविकाग्निमित्रम् ॥
उभे । १जइवेसधारिणी अज्जकोसिई दुख्खेण विभाविअदि।
दुवेवि अम्हे भअवदिं वन्दामहे ।
परिव्राजिका । स्वस्ति भवतीभ्याम् ।
राजा । कथमाप्रवर्गीयं भवत्याः ।
परिव्राजिका । एवमेतत् ।
विदूषकः । २तेण हि कहेहि दाणिं अन्नहोदीए उन्नन्तावसेसं ।
परिव्राजिका । सवैक्रव्यम् । श्रूयतां तावत् । माधवसेनसचिवं
सुमतिं ममाग्रजमवगच्छ ।
राजा । उपलब्धम् । ततस्ततः ।
परिव्राजिका । स इमां तथागतभ्रातृकां मया सार्धमपवाह्य
भवत्संबन्धापेक्षया पथिकसार्थं वैदिशगामिनमनुप्रविष्टः।
राजा । ततस्ततः ।
परिव्राजिका । स चाटव्यन्ते निविष्टो गताध्वा
वाणिग्जनध्वश्रमार्तो विश्रामितुम् ।

१.यतिवेषधारिष्यार्यकीशिकी दुःखेन विभाव्यते । द्वे अप्यावां भगवतीं वन्दावहे।
२. तेन हि कथयेदानीमत्रभवत्या वृत्तान्तावशेषम् ।

1. D E F अ-अ. -A c कोसिइ
2. A दूवे.-F भअवदीं.
4. E भगवत्याः,
6. F कहेहि २, i. e. कहेहि कहेहि-
A C D E अन्तहोदिए.
8. F उपगच्छ for "अवगन्छ."
11. A, as an after-correction,
विदिश'; F' विदेश.
14. B C D E F विश्रमिनुम्.