पृष्ठम्:मालविकाग्निमित्रम्.djvu/१५०

पुटमेतत् सुपुष्टितम्
१०३
॥ मालविकाग्निमित्रम् ॥
द्वितीया । १अदो ख्खु भट्टिदारिआए इअं समवथ्था संवुत्ता ।
परिव्राजिका । बाष्पं विकिरति ।
राजा । तनुभृतामीदृशी लोकयात्रा । न
शोचितव्यस्तत्रभवान्सफलीकृतभर्तृपिण्डः ।
परिव्राजिका । ततोहं मोहमुपागता यावत्संज्ञामुपलभे तावदियं
दुर्लभदर्शना संवृत्ता ।
राजा । महत्खलु कष्टमनुभूतं भगवत्या ।
परिव्राजिका । ततो भ्रातृशरीरमग्निसात्कृत्वा
पुनर्नवीकृतवैधव्यदुःखया मया त्वदीयं देशमवतीर्येमे काषाये गृहीते ।
राजा । युक्तः सज्जनस्यैष पन्थाः । ततस्ततः ।
परिव्राजिका । तत इयमप्याटविकेभ्यो वीरसेनं वीरसेनाद्देवीं
गता देवीगृहे लब्धप्रवेशया मया पुनर्दृष्टा ।
इत्येतदवसानं कथायाः ।
मालविका । आत्मगतम् । २किं णु ख्खु संपदं भट्टा भणादि ।
राजा । अहो परिभवोपहारिणो विनिपाताः । कुतः ।

१. अतः खलु भर्तृदारिकाया इयं समवस्था संवृत्ता ।
२. किं नु खलु सांप्रतं भर्ती भणति ।

1. A B C D E भट्ट.
3. Our MSS. तनुत्यजाम्. We
according to G
5. Our MSS. add अस्मि after
“ उपागता" We with G .
7. F कृच्छ्रम् for “कष्टम्."
9. A B C D E omit & मया.”-F
कषाये
11. F omits "वैरसेनम् ”.
12. B गृहलब्ध .
14. A B C D E omit ‘ख्खु”.
15. E परिभवप्रहारिणः, F
परिभावोपनिपातिनो.