पृष्ठम्:मालविकाग्निमित्रम्.djvu/४८

पुटमेतत् सुपुष्टितम्

॥ अथ मालविकाग्निमित्रम् ॥


एकैश्वर्यस्थितोपि प्रणतबहुफलो यः स्वयं कृत्तिवासाः
कान्तासंमिश्रदेहोप्यविषयमनसां यः पुरस्ताद्यतीनाम् ।
अष्टाभिर्यस्य कृत्स्नं जगदपि तनुभिर्बिभ्रतो नाभिमानः
सन्मार्गालोकनाय व्यपनयतु स नस्तांमसीं वृत्तिमीशः ॥ १ ॥

नान्द्यन्ते

सूत्रधारः । नेपथ्याभिमुखमवलोक्य । मारिष इतस्तावत् ।
पारिपार्श्वकः । प्रविश्य । भाव अयमस्मि।
सूत्र° । अभिहितोस्मि परिषदा कालिदासग्रथितवस्तुमालविकाग्निमित्रं नाम नाटकमस्मिन्वसन्तोत्सवे प्रयोक्तव्यमिति । तदारभ्यतां संगीतकम् ।

पारि० । मा तावत् । प्रथितयशसां भासकविसौमिल्लकविमिश्रादीनां प्रबन्धानातिक्रम्य वर्तमानकवेः कालिदासस्य क्रियायां कथं परिषदो बहुमानः।


1. D F एकैश्वर्ये for एकैश्वर्य

4. F व- for नः 1m

 1m