पृष्ठम्:मालविकाग्निमित्रम्.djvu/५४

पुटमेतत् सुपुष्टितम्
॥ मालविकाशिभित्रम् ।


बकु° 1अथ्थि देवीए वण्णावरो भादा वीरसेणो णाम । सो भट्टिणा अन्तपालदुग्गे मन्दायणीदीरे ठ्ठाविदो। तेण सिप्पाहिआरे जोग्गा इअं दारिएत्ति भइणीए उवाअणं पेसिदा।
गण°। आत्मगतम्। आकृतिप्रत्ययादेनामनूनवस्तुकां संभावयामि।
प्रकाशम् । मया भद्रे यशस्विना भवितव्यम् । पश्य । 5
पात्रविशेषन्यस्तं गुणान्तरं व्रजति शिल्पमाधातुः ।
जलमिव समुद्रशुक्तौ मुक्ताफलतां पयोदस्य ॥ ६ ॥
बकु° ।2अह कहि वो सिस्सा ।
गण° । इदानीमेव पञ्चाङ्गमभिनयमुपदिश्य विश्रम्यतामित्यभिहिता दीर्घिकावलोकनगवाक्षगताग्रवातमासेवमाना तिष्ठति ।
बकु° ।3 तेण हि अणुजाणादु मं अज्जो । जावसे अज्जपरितो सणिवेदणेण उछाहं वढ्ढेमि ।।
गण° । दृश्यतां सखी । अहमपि लब्धक्षणः स्वगृहं गच्छामि ।

इति निष्क्रान्तौ ।15

॥ विष्कम्भकः ॥


१. अस्ति देव्या वर्णावरो भ्राता वीरसेनो नाम । स भर्त्रान्तपालदुर्गे मन्दाकिनीतीरे स्थापितः । तेन शिल्पाधिकारे योग्येयं दारिकेति भगिन्या उपायनं प्रेषिता ।
२. अथ क्व वः शिष्या ।
३. तेन ह्यनुजानातु मामार्यः। यावदस्याः आर्यपरितोषनिवेदनेनोत्साहं वर्धये ।

1. B वण्णाव्वरो—B भादा.
2. F मन्दाकिणीतीरे-A B C D सिप्याहिअरे-
4. F आकृतिविनयप्रत्ययाद्.
6. F पात्रविशेषे न्यस्तम्.
8. A C E अहवा for अह.
9. F पञ्चाङ्गाभिनयम्.
10. A E F ०गता प्रवातम्.
12. F' अ-ओ-'F अ-अपरेितोस.
16. B मिश्रविष्कम्भकः, E F मिश्रविष्कम्भः-