पृष्ठम्:मालविकाग्निमित्रम्.djvu/५५

पुटमेतत् सुपुष्टितम्
॥ प्रथमाङ्कः ॥


। ततः प्रविशत्येकान्तस्थपरिजनो मन्त्रिणालेखहस्तेनान्वास्यमानो राजा ।

राजा । अनुवाचितलेखममात्यं विलोक्य। वाहतव किं प्रपद्यते वैदर्भः ।
अमात्यः। आत्मविनाशम् ।
राजा । निदेशमिदानीं श्रोतुमिच्छामि ।
अमा° । इदमिदानीमनेन प्रतिलिखितम् । पूज्येनाहमादिष्टः। पितृव्यपुत्रो भवतः कुमारो माधवसेनः प्रतिश्रुतसंबन्धो ममोपान्तिकमुपागच्छन्नन्तरा त्वदीयेनान्तपालेनावस्कन्द्य गृहीतः। स
त्वया मदपेक्षया सकलत्रसोदर्यो मोचयितव्य इति । तन्न वो न विदितं यत्तुल्याभिजनेषु भूमिभरेषु राज्ञां वृत्तिः । अतो मध्यस्थः पूज्यो भवितुमर्हतेि । सोदर्या पुनरस्य ग्रहणविप्लवे विनष्टा ।
तदन्वेषणाय प्रयतिष्ये । अथावश्यमेव माधवसेनः पूज्येन मोचयितव्यः । श्रूयतामभिसंधिः।
मौर्यसचिवं विमुञ्चति यदि पूज्यः संयतं मम श्यालम्।।
मोक्ता माधवसेनं ततोहमपि बन्धनात्सद्यः ॥ ७ ॥
इति ।

2. D वाहतक, corrected, it seems,
from original वाहतव
5. A B C D E प्रतिलेखितम्
9. A B C D E omit the न after वो.
-A B C तत्तुव्या
10. A C राजसु राज्ञः for भूमिभरेषु
राज्ञाम्
16. B omits " इति”