पृष्ठम्:मालविकाग्निमित्रम्.djvu/५६

पुटमेतत् सुपुष्टितम्
॥ मालविकाशिभित्रम् ।


राजा । कथम् । कार्यविनिमयेन मयि व्यवहरत्यनात्मज्ञः । वाहतव प्रकृत्यमित्रः ::प्रतिकूलचारी मे वैदर्भः । तद्यातव्यपक्षे स्थितस्य पूर्वसंकल्पितमुन्मूलनाय वीरसेनप्रमुखदण्डचक्रमाज्ञापय ।
अमा० । यदाज्ञापयति देवः ।
राजा । अथ वा किं भवान्मन्यते ।
अमा° । शास्त्रदृष्टमाह देवः । कुतः ।
अचिराधिष्ठितराज्यः शत्रुः प्रकृतिष्वरूढमूलत्वात् ।
नवसंरोहणशिथिलस्तरुरिव सुकरः समुद्धर्तुम् ॥ ८ ॥
राजा० । तेन ह्यवितथं तन्त्रकारवचनम् । इदमेव निमित्तमादाय समुद्योज्यतां सेनापतिः।
अमा० । तथा ।

[इति निष्क्रान्तः।]

परिजनो यथाव्यापारं राजानमभितः स्थितः

विदूषकः । प्रविश्य । 1आणत्तोम्हि । तत्तहोदा रण्णा । गोदम चिन्तेहि दाव उवाअं जह मे जदिछ्छादिठ्ठपडिकिदी मालविआ पच्चख्खदंसणा भवेत्ति। मएवि तह किदं । जाव से णिवेदेमि।
परिक्रामति ।
राजा । विदूषकं दृष्ट्वा। अयमपरः कार्यान्तरसचिवोस्मानुपस्थितः ।

१. आज्ञप्तोस्मि तत्रभवता राज्ञा । गौतम चिन्तय तावदुपायं यथा मे यदृच्छादृष्टप्रतिकृतिर्मालविका प्रत्यक्षदर्शना भवेदिति । मयापि तथा कृतम् । तावदस्य निवेदयामि ।

4. F' प्रमुखं.
15. B अणत्तम्हि, C अणत्तोम्हि, F
आणत्तम्हि
16. B चिन्तहि
18. B णेिवेदम्मि