पृष्ठम्:मालविकाग्निमित्रम्.djvu/५८

पुटमेतत् सुपुष्टितम्
११
॥ मालविकाशिभित्रम् ।


एतौ पुनर्हरदत्तगणदासौ
उभावभिनयाचार्यौ परस्परजयोद्यतौ ।
त्वां द्रष्टुमिच्छतः साक्षाद्भावाविव शरीरिणौ ॥ १० ॥
राजा । प्रवेशय तौ ।
कञ्चुकी । यदाज्ञापयति देवः। इति निष्क्रम्य पुनस्ताभ्यां सह प्रविश्य | 5
इतो इतो भवन्तौ ।
हरदत्तः । राजानमवलोक्य । अहो दुरासदो राजमहिमा । तथा हि।
न च न परिचितो न चाप्यगम्यश्
चकितमुपैमि तथापि पार्श्वमस्य ।
सलिलनिधिरिव प्रतिक्षणं मे
भवति स एव नवो नवोयमक्ष्णोः॥ ११ ॥
गण° । महत्खलु पुरुषाधिकारमिदं ज्योतिः। तथा हि ।
द्वारे नियुक्तपुरुषानुमतप्रवेशः
सिंहासनान्तिकचरेण सहोपसर्पन् ।
तेजोभिरस्य विनिवर्तितदृष्टिपातैर्
वाक्यादृते पुनरिव प्रतिवारितोस्मि ॥ १२ ॥
कञ्चुकी । एष देवः। उपसर्पतां भवन्तौ ।
उभौ । उपेत्य । विजयतां देवः ।
राजा। स्वागतं भवद्भ्याम् । परिजनं विलोक्य । आसने तावदत्र भवतोः।

3. A B C DE बिवादिनौ for शरीरिणौ-
7. F ' विलोक्य
8. F.reads the first pada thus:
‘न च परिचितो न चापरम्य:
10. F ' जलनिधि° corrected from
सलिलनिधि°
17. A B उपसर्पेताम् as an after-
correction in both.