पुटमेतत् सुपुष्टितम्
१८
॥ प्रथमोङ्कः ॥
- देवी । जनान्तिकम् ।1 मूढे परिव्वाजिए कि जागतिंवि मं सुत्तं
- विअ करोसि । इति सासूयं परावर्तते ।
- राजा । देव परिव्राजिकायै दर्शयति ।
- परि० । विलोक्य ।
- अनिमित्तमिन्दुवदने किमत्रभवतः पराङ्मुखी भवसि ।।
- प्रभवन्त्योपि हि भर्तृषु कारणकोपाः कुटुम्बिन्यः ॥१८॥
- विदूषकः।2 णं सकारणं एव्व । अप्पणो पख्खो रख्खिदव्वोत्ति ।
- गणदासं विलोक्य । दिठ्ठिआ कोवव्वाएण देवीए परित्तादो भवं ।
- सुसिख्खिओवि सव्वो उवदेसेण णिवुणो होइ ।
- गण. । देवि श्रूयताम् । एवं जनो गृह्णाति। तदिदानीं-
- विवादे दर्शयिष्यन्तं क्रियासंक्रान्तिमात्मनः।
- यदि मां नानुजानासि परित्यक्तोस्म्यहं त्वया ॥ १९ ॥
- आसनादुतिष्ठति ।
- देवी । स्वगतम् । 3का गई । प्रकाशम् । पहवदि अज्जो सिस्सजणस्स।
- १. मूढे परिव्राजिके किं जाग्रतीमपि मां सुप्तमिव करोषि ।
२. ननु सकारणमेव । आत्मनः पक्षो रक्षितव्य इति । दिष्ट्या कोपव्याजेन देव्या परित्रातो भवान् । सुशिक्षितोपि सर्व उपदेशेन निपुणो भवति ।
- ३. का गतिः। प्रभवत्यार्यः शिष्यजनस्य ।
|
|