पुटमेतत् सुपुष्टितम्
१९
॥ मालविकाग्निमित्रम् ।
- गण. ।चिरमपदे शङ्कितोस्मि । राजानं विलोक्य । अनुज्ञातं देव्या।
- तदाज्ञापयतु देवः। कस्मिन्नभिनयवस्तुन्युपदेशं दर्शयिष्यामि ।
- राजा । यदादिशति भगवती ।
- परि० । किमपि देव्या मनसि वर्तते । तच्छङ्कितास्मि ।
- देवी ।1 भण विस्सध्धं । णं प्पहविस्सं अत्तणो परिअणस्स ।
- राजा। मम चेति ब्रूहि ।
- देवी ।2 भअवदि भण दाणिं ।
- परि० । देव चतुष्पदोद्भवं चलितमुदाहरन्ति । तत्रैकार्थसंश्रयमुभयोः प्रयोगं पश्यामः । तावता ज्ञायत एव तत्रभवतोरुपदेशान्तरम् ।
- उभौ। यदाज्ञापयति भगवती ।
- विदूषकः ।3 तेण हि दुव्वे वि गदुअ पेख्खाघरए संगीदरअणं
करिअ अत्तभवदो दूदं विसज्जेह ।
- १. भण विश्रब्धम् । ननु प्रभविष्याम्यात्मनः परिजनस्य ।
- २. भगवति भणेदानीम् ।
- ३. तेन हि द्वावपि गत्वा प्रेक्षागृहे संगीतरचनां कृत्वात्रभवते दूतं विसर्जयतम् ।
|
|