पुटमेतत् सुपुष्टितम्
२१
॥ मालविकाग्निमित्रम् ॥
- राजा । आत्मगतम् । अहो सर्वास्ववस्थासु चारुता शोभां पुष्यति ।
- तथा हि
- वामं संधिस्तिमितवलयं न्यस्य हस्तं नितम्बे
- कृत्वा श्यामाविटपसदृशं लस्तमुक्तं द्वितीयम् ।
- पादाङ्गुष्ठालुलितकुसुमे कुट्टिमे पातिताक्षं
- नृतादस्याः स्थितमतितरां कान्तमृज्वायतार्धम् ॥७॥
- तथा हि
- देवी । 1'णं गोदमवअणंपि अज्जो हिअए करेदि ।
- गण० । देवि मैवम् । देवप्रत्ययात्संभाव्यते सूक्ष्मदर्शिता गौतमस्य । पश्य ।
- मन्दोप्यमन्दतामेति संसर्गेण विपश्चितः।
- पङ्कच्छिदः फलस्येव निकषेणाविलं पयः ॥ ८ ॥
- विदूषकं विलोक्य । शृणुमो विवक्षितमार्यस्य ।
- विदूषकः। गणदासं विलोक्य । 2सख्खिणीं दाव पुछु ।पछ्छा जो मये कमभेदो लख्खिदो तं भणिस्सं ।
- गण° । भगवति यथादृष्टमभिधीयतां दोषो वा गुणो वा ।
- १. ननु गौतमवचनमप्यार्यो हदये करोति ।
- २. साक्षिणीं तावत्पृच्छ । पश्चाद्यो मया क्रमभेदो लक्षितस्तं भणिष्यामि ।
|
|