पृष्ठम्:मालविकाग्निमित्रम्.djvu/७५

पुटमेतत् सुपुष्टितम्
२८
॥ द्वितीयोङ्कः ॥
देवा । १चिठ्ठ । गुणन्तरं अआणन्तो किंति तुमं आहरणं देसि ।
विदूषकः । २परकीअंति करिअ ।
वेदी । आचार्यं विलोक्य । ३अज्ज गणदास णं दंसिदोवदेसा वो सिस्सा ।
गण० । वत्से प्रतिष्ठस्वेदानीम् ।
मालविंका सहाचार्येण निष्कान्ता ।
विदूषकः । जनान्तिकम् । राजानं विलोक्य । ४एत्तिओ मे विहवो भव‌न्तं सेविदुं ।
राजा । जनान्तिकम् । अलमलं परिच्छेदेन । अद्य हि
भाग्यास्तमयमिवाक्ष्णोर्हृदयस्य महोत्सवावसानमिव ।
द्वारपिधानमिव धृतेर्मन्ये तस्यास्तिरस्करिणीम् ॥११॥
विदूषकः । ५साहु तुमं दरिद्दादुरो विअ वेज्जेण उवणीअमाणं ।
ओसहं इछ्छसि ।
हरदत्तः । प्रविश्य । देव मदीयमिदानीमवलोकयितुं प्रयोगं ।

क्रियतां प्रसादः ।


१. तिष्ठ । गुणान्तरमजानान्किमिति त्वमाभरणं ददासि ।
२. परकीयमिति कृत्वा
३. आर्य गणदास ननु दर्शितोपदेशा व: शिष्या ।
४. एतावान्मे विभवो भवन्तं सेवितम् ।
५. साधु त्वं दारिद्रातुर इव वैद्येनोपनीयमानमौषधमिच्छसि ।

1. C अअणन्तो–A B C D E अ-
हिणन्देसि for ‘‘आहरणं देसि.”
2. A परकरयंति; B परे केरयंति; E
corrects its परकेरयंति into
पख्खोयंति; C D परकेरयंति
3 . D E F अ-अ -A B C D E
om. णं.
7. cअत्तिओ; D यत्तिओ, B येत्तिओ.
ll. F तिरस्करणम्
15. F add इति after “"क्रियताम्"