पृष्ठम्:मालविकाग्निमित्रम्.djvu/७८

पुटमेतत् सुपुष्टितम्
३१
॥ मालविकाग्निमित्रम् ॥
विदूषकः । गेहीदख्खणोम्हि । किं दु मेहोवरुध्धजोण्हा विअ पराहीणदंसणा तत्तभोदी । भवंवि सूणोपरिचरो विहंगमो विअ आमिसलोलुवो भीरुओ अ अच्चादुरो भविअ कज्जसिध्धिं पथ्थयन्तो मे रुच्चइ ॥
राजा । सखे कथं नातुरो भविष्यामि । यदा
सर्वान्तपुरवनिताव्यापारप्रतिनिवृत्तहृदयस्य ।
सा वामलोचना मे स्नेहस्यैकायनीभूता ॥ १८ ॥

[ इति निष्क्रान्तौ ।


॥ इति द्वितीयोङ्कः ॥



१.गृहीतक्षणोस्मि । किं तु मेघोपरुद्धज्योत्स्नेव पराधीनदर्शना तत्रभवती । भवानपि शूनोपरिचरो विहंगम इवाभिषलोलुपो भीरूकश्चात्यातुरो भूत्वा कार्यासिद्धिं
प्रार्थयन्मे रोचते ।

1. A B C D E गहिदख्खिणो.-
B°जोन्हा-A B C D Eमेहाव-
रू. .
6. B C व्यापारं
8. B इति निष्कान्ताः सर्वे ; E निष्का-
न्ताः सर्वे.