पृष्ठम्:मालविकाग्निमित्रम्.djvu/८४

पुटमेतत् सुपुष्टितम्
३७
॥ मालविकाग्निमित्रम् ॥
राजा । न क्षमामिदं ।
विदूषका । 1कहं विअ ।
राजा । वयस्य निसर्गनिपुणाः स्त्रियः। कथं मामन्यसंक्रान्तहृदयमुपलायन्तमापि ते सखी न लक्षयिष्यति । अतः पश्यामि
उचितः प्रणयो वरं विहन्तुं बहवः खण्डनहेतवो हि दृष्टाः।
उपचारविधिर्मनस्विनीनां न तु पूर्वाभ्यधिकोपि भावशून्यः ॥
॥३॥
विदूषकः । 2णारुहदि भवं अन्तेउरपडिठ्ठिदं दख्खिण्णं एक्कपदे पिठ्ठदो कादुं ।
राजा । विचिन्त्य । तेन हि प्रमदवनमार्गमादेशय ।
विदूषकः । 3इदो इदो भवं ।

। उभौ परिक्रामतः ।

विदूषकः। 4वसन्दो किल एदाहिं पवणचलिदाहिं पल्लवङ्गुलीहिं
तुवरेदि विअ भवन्तं एदं पमदवणं पविसेत्ति

१. कथमिव।
२. नार्हति भवानन्तःपुरप्रतिष्ठतं दाक्षिण्यमेकपदे पृष्ठतः कर्तुम् ।
३.इत इतो भवान् ।
४.वसन्तः किलैताभिः पवनचलिताभिः पल्लवाङ्गुलीभिस्त्वरयतीव भवन्तमेतत्प्रमदवनं
प्रविशेति ।

7. A B C E ननु for नतु.
9. A D नारुहदि -E० प्पडिठ्ठिदं.--
A B C D E add जणं after
दख्खिणं which they read for
दख्खिण्णं.
15. A B C D E तुवरावेदि -B प्प-
विसेति.