पुटमेतत् सुपुष्टितम्
४१
॥ मालविकाग्निमित्रम् ॥
- विपुलं नितम्बबिम्बे मध्ये क्षामं समुन्नतं कुचयोः ।
- अत्यायतं नयनयोर्मम जीवितमेतदायाति ॥ ७ ॥
- सखे पूर्वस्मादवस्थान्तरमारूढा तत्रभवती । तथा हि ।
- शरकाण्डपाण्डुगण्डस्थलेयमाभाति परिमिताभरणा ।
- माधवपरिणतपला कतिपयकुसुमेव कुन्दलता ॥ ८ ॥
- विदूषकः । [१]एसावि भवं विअ मअणवाहिणा परिमिठ्ठा भविस्सदि ।
- राजा । सौहार्दमेवं पश्यति ।
- मालविका । [२]अअं सो ललिअदोहलापेख्खी अगहीदकुसुमणेवथ्थो
- उक्कण्ठिदं मं अणुकरेइ असोओ । जाव से
- पछ्छाअसीअले सिलापट्टे णिसण्णा भविअ अत्ताणं
- विणोदेमि ।
- विदूषकः । [३]सुदं भवदा उक्कण्ठिदम्हित्ति तत्तहोदीए मन्तिदं,
- राजा । नैतावता भवन्तं प्रसन्नतर्कं मन्ये । कुतः
- वोढा कुरबकरजसां किसलयपुटभेदसीकरानुगतः ।
- अनिमित्तोत्कण्ठामपि जनयति मनसो मलयवातः ॥ ९ ॥
- मालविका । उपविष्टा ।
|
|
- ↑ एषापि भवानिव मदनव्याधिना परिमृष्टा भविष्यति ।
- ↑ अयं स ललितदोहदापेक्ष्यगृहीतकुसुमनेपथ्य उत्कण्ठितां मामनुकरोत्यशोकः । तावदस्य प्रच्छायशीतले शिलापट्टे निषण्णा भूत्वात्मानं विनोदयामि ।
- ↑ श्रुतं भवतोत्कण्ठितास्मीत्यत्रभवत्या मन्त्रितम् ।
6