पृष्ठम्:मालविकाग्निमित्रम्.djvu/९८

पुटमेतत् सुपुष्टितम्
५१
॥ मालविकाग्निमित्रम् ॥
मालविका[१]किं अप्पणो छन्देण मन्तेसि ।
बकुलावलिका । ण[२] हि । भट्टिणो एदाइं पण अमआइं अख्खराइं बिम्बन्तरिदाइं ।
मालविका[३]हला देविं विचिन्तिअ ण मे हिअअस्स पहविस्सं ।
बकुलावलिका[४]मुध्धे भमरसंबध्धोत्ति वसन्दावदारसंव्वस्सो 5
ण चूदपल्लवो किं ओदंसइदव्वो ।
मालविका । [५]तुमं दाव दुज्जादे मे अच्चन्तसाहाइणी होहि ।
बकुलावलिका[६]विमद्दसुरही बउलावलिआ ख्खु अहं ।
राजा। साधु बकुलावलिके साधु ।
भावज्ञानानन्तरं प्रस्तुतेन
प्रत्याख्याने दत्तयुक्तोत्तरेण ।
वाक्येनेयं स्थापिता स्वे निदेशे
स्थाने प्राणाः कामिनां दूत्यधीनाः ॥ १४ ॥

1. D छन्देन.
2. A B C D एदाई.
4. B विचिन्तीभ; c विचिन्दिभ.
6. Our MSS. भमरसेंपादोत्ति. We
with G.-A C D E सव्वस्सं.
7. A B C D साहाहिणी.
8. A B C D E "सुरहि."

  1. किमात्मनश्छन्देन मन्त्रयसि ।
  2. न हि । भर्तुरेतानि प्रणयमयान्यक्षराणि बिम्बान्तरितानि ।
  3. हला देवीं विचिन्त्य न मे हृदयस्य प्रभविष्यामि ।
  4. मुग्धे भ्रमरसंबद्ध इति वसन्तावतारसर्वस्वो न चूतपल्लवः किमवतंसयितव्यः ।
  5. त्वं तावद्दुर्जाते मेत्यन्तसाहाय्यकारिणी भव ।
  6. विमर्दसुरभिर्बकुलावलिका खल्वहम् ।