१४ मालविकाििमेत्रे द्वितीयोऽङ्कः । (ततः प्रविशति संगीतरचनायामासनस्यो राजा सवयस्यो धारिणी परित्राजेिका विभवतश्च परिवारः ) राजा-भगवति, अत्रभवतोराचार्ययोः प्रथमं कतरस्योपदेशं इक्ष्यामः । परित्राजिका-ननु समानेऽपि ज्ञानवृद्धभावे वयोवृद्धत्वाद्भण दासः पुरस्कारमर्हति । राजा-मौदूल्य, , एवमत्रभवतीरावेद्य नियोगमशून्यं कुरु । कञ्चुकि-यदाज्ञापयति देवः । (इति निष्क्रान्तः ) (प्रविश्य ) गणदासः–देव, शर्मिष्ठायाः कृतेिर्लयमध्या चतुष्पदाति । तस्याश्चतुर्थवस्तुनः प्रयोगमेकमनाः श्रोतुमर्हति देवः । राजा-आचार्य, बहुमानादवहितोऽस्मि । (निष्क्रान्ती गणदासः ।) राजा---(जनान्तिकम् ) वयस्य, नेपथ्यपरिगतायाश्चक्षुर्दर्शनसमुत्सुकं तस्याः । संहर्तुमधीरतया व्यवसितमिव मे तिरस्करिणीम् ॥ १ ॥ कविरेिदानीमङ्कान्तरं प्रस्तौति--ततः प्रविशतीत्यादि । ‘भगवति, अत्र भवतोः' इत्यादिना ‘गणदासः पुरस्कारमर्हति' इत्यन्तेन प्रतीयमानं राज्ञ उपायो। मालविकादर्शनप्रवर्तनं प्रयत्नो नाम द्वितीयावस्थितिरिति मन्तव्यम् । अत्र बिन्दुप्रयत्नयोः समन्वयात्प्रतिमुखसैधिरित्यजुसंधेयम् ॥ देव, शर्मिष्ठाया इ त्यादि। शर्मिष्ठा नाम वृषपर्वणो राक्षसराजस्य दुहिता । तस्याः कृतिः काव्यम् । लंयमध्या लयेन तालकालेन मध्या मध्यमानयुक्ता । वतुष्पदा चत्वारि पदानि खण्डानि यस्याः सा तथोक्ता । तस्याः कृतिसंबन्धिनश्चतुर्थवस्तुनश्चतुर्थस्य तुर्यस्य वस्तुनः प्रबन्धस्य प्रयोगमनियमेकमना अवहितः सन् श्रोतुमर्हति । अत्रश्टङ्का रस्य प्रतिपाद्यमानत्वाष्टयमध्येत्युक्तम् । तथा चोक्तंभारतीये-**शृङ्गारहास्ययोर्म ध्यलयः । करुणे विलम्बितः । वीररौद्रादुतबीभत्सभयानकेषु झुतः ॥ ‘नेपथ्य परिगताया तेि । नेपथ्यपरिगताया यावनिकान्तरस्थितायास्तस्या माळवि माया
पृष्ठम्:मालविकाग्निमित्रम् - काटयवेमः - १९२४.djvu/२७
एतत् पृष्ठम् अपरिष्कृतम् अस्ति