(२) इति शास्त्रव्यसनिनां परं दुःखकरमिदम्। चन्द्रकीर्तिकीर्तिभूतां परमरमणीयां तां व्याख्यां सम्यक् समालोचयतां परिज्ञातं भवेत् पुनः चन्द्रकीर्तेः प्रागपि आचार्य्यभावविवेकेन मूलकारिकायाः कापि व्याख्या व्यरचि इति । खातन्त्रिकमाध्यमकमतवादाकरीभूतायाः तस्याः अपि भावविवेककृतः वृत्तेः आचार्यबुद्धपालितमतनिराकरणपूर्वक खमतस्थापनवैशिष्टयमिति केवलमनुमानादिभिरेव ज्ञातुं शक्यते साम्पतम्। आचार्य्यनागार्जुनस्यापि खोपना अकुतोभया नाम वृत्तिः कालवैशषं प्राप्तति तन्मतानुशीलनकामिनां दु:खकरमेव । केवलं भोटभाषायामेव शून्यवादपक्षीयास्ते ते ग्रन्था अन्दिताः वर्तन्ते इति । यद्यपि भोटभाषाभिज्ञानां तत्तन्मूलग्रन्थप्रतिनिधिस्थानीयानां तेषां तेषां परिचयो सुलभः, तथापि दुग्धपिपासूनां तक्रपानमिव तत्तत्भाषान्तरित- ग्रन्याध्ययनं न तृप्तिकरमिति सर्वेषामेव अभिजनानां खीकर्तव्यः पन्थाः । अतएव निपुनतमाः प्राहुः, 'रजन्यालादकश्चन्द्रः चन्द्रकान्तमणिर्न चहति।' भावविवेककृतात् अस्य पुनर्महामतः चन्द्रकोत्तरिदमेव वैषम्यं यत्- भावविवेकास्तु सांव्यवहारिकं प्रमाणमुररीकृत्य खकीयमतस्थापनपूर्वक परमतं निराचक्रुः। चन्द्रकोर्तयस्तु पुनः न्यायाभिमतप्रतिकूल- तर्कापरनामकं प्रसङ्गानुमानं समाश्रित्य प्रतिवादिमतनिरसनेनैव खकर्तव्यं सम्पादयामासुः। अतएव च खपक्षस्थापनाहीनतया केवलं परमतखण्डनात्मकं तदीय व्याख्यानं युक्तिसमुपन्यासरीतिवैदुष्येण विद्वज्जनमनोहारित्वेऽपि वैतण्डिकं मतमिति तान्त्रिकाणां तत्राभियोगः। तत्रादौ पुनरिदं चिन्तनीयं यत् भगवता बोधिसत्त्वेन समुपदिष्ट शून्य शून्यमिति वचसां श्रवणमात्रेणेव कीदृशोऽर्थः श्रोतुर्मानसे पटं करोति किञ्चित् खरूपनिर्धारणानहें शून्यमिति व्यपदिश्यते। दश्यते च गणितशास्त्रेऽपि किञ्चित्संख्याया अनिरूपणसूचनार्थमेव विन्दुरित्य- परनामकं शून्यं व्यवहरन्ति गणितविदः। साधारणखरूपनिर्धारणा- नहतया च आकाशं शून्यमिति शब्द न व्यपदिश्यते । सौगतदार्शनिकाश्च मन्यन्ते यत्, क्रियाकारकादिसमन्वितानां सर्वेषां व्यवहाराणां सत्त्व यतो निरूपयितुं न शक्यते, अतएव सबै शून्यमिति समुपदेशः भगवतो । ।
पृष्ठम्:मूलमध्यम-कारिका (६-७ प्रकरणे).djvu/१०
एतत् पृष्ठम् अपरिष्कृतम् अस्ति